संन्यासस्य महाबाहो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः

अर्जुन उवाच -

सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सन्न्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥

अन्वयः[सम्पादयतु]

महाबाहो हृषीकेश केशिनिषूदन ! सन्न्यासस्य त्यागस्य च तत्त्वं पृथक् वेदितुम् इच्छामि ।

शब्दार्थः[सम्पादयतु]

तत्त्वम् = याथात्म्यम्
केशिनिषूदन = केशिसंहारक !
वेदितुम् = ज्ञातुम् ।

अर्थः[सम्पादयतु]

श्रीकृष्ण ! सन्न्यासस्य याथात्म्यं त्यागस्य च याथात्म्यं पृथक् पृथक् ज्ञातुम् अभिलषामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=संन्यासस्य_महाबाहो...&oldid=418840" इत्यस्माद् प्रतिप्राप्तम्