त्याज्यं दोषवदित्येके...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
- यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य तृतीयः(३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]त्याज्यं दोषवत् इति एके कर्म प्राहुः मनीषिणः यज्ञदानतपः कर्म न त्याज्यम् इति च अपरे ॥ ३ ॥
अन्वयः
[सम्पादयतु]एके मनीषिणः दोषवत् कर्म त्याज्यम् इति प्राहुः । अपरे यज्ञदानतपःकर्म च न त्याज्यम् इति ।
शब्दार्थः
[सम्पादयतु]- एके = अन्ये
- मनीषिणः = बुधाः
- दोषवत् = दोषः इव
- त्याज्यम् = वर्जनीयम्
- प्राहुः = वर्णयन्ति
- अपरे = इतरे
- यज्ञदानतपःकर्म = यागवितरणतपःकर्म ।
अर्थः
[सम्पादयतु]अन्ये बुधाः यथा दोषः तथा कर्म वर्जनीयम् इति वदन्ति । इतरे तु यज्ञदानतपःकर्म न वर्जनीयम् इति वदन्ति । व्याकरणम् - यज्ञश्च दानं च तपश्च यज्ञदानतपांसि - द्वन्द्वः । यज्ञदानतपांसि इति कर्म यज्ञदानतपःकर्म - कर्मधारयः । त्यजधातोः कर्मणि ण्यति त्याज्यमिति शब्दः, त्यक्तव्यम् इत्यर्थः ।