दुःखमित्येव यत्कर्म...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
- स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]दुःखम् इति एव यत् कर्म कायक्लेशभयात् त्यजेत् स कृत्वा राजसं त्यागं न एव त्यागफलं लभेत् ॥
अन्वयः
[सम्पादयतु]कायक्लेशभयात् दुःखम् इति एव यत् कर्म त्यजेत् सः राजसं त्यागं कृत्वा त्यागफलं न एव लभेत् ।
शब्दार्थः
[सम्पादयतु]- कायक्लेशभयात् = शरीरदुःखभीत्या ।
अर्थः
[सम्पादयतु]यः पुनः शरीरायासभयात् दुःखं भवतीति मत्वा कर्म त्यजति सः त्यागः राजसः इत्युच्यते । तस्य च त्यागस्य सात्त्विकत्यागफलं सर्वथा न सम्भवति । तस्मात् तादृशः त्यागः न श्रेयस्करः ।