अधिष्ठानं तथा कर्ता...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अधिष्ठानं तथा कर्ता करणं च पृथक् विधम् विविधाः च पृथक् चेष्टाः दैवं च एव अत्र पञ्चमम् ॥

अन्वयः[सम्पादयतु]

अधिष्ठानं तथा कर्ता, पृथग्विधं करणं च, विविधाः च पृथक्चेष्टाः अत्र च एव पञ्चमं दैवम् ।

शब्दार्थः[सम्पादयतु]

अधिष्ठानम् = शरीरम्
पृथग्विधम् = नानाप्रकारम्
करणम् = इन्द्रियम्
पृथक्चेष्टाः = भिन्नव्यापाराः
दैवम् = दैवम् ।

अर्थः[सम्पादयतु]

शरीरम्, अहारः, नेत्रश्रोत्रादीनि ज्ञानसम्बन्धीनि, वाक्पादादीनि कर्मसम्बन्धीनि, मनश्च इति एकादश इन्द्रियाणि, कार्यतः स्वरूपतश्च भिन्नरूपाः प्राणापानादीनां व्यापाराः तथा एतेषां प्रेरकं दैवम् इति एतानि पञ्च सर्वेषां कर्मणां सिद्धौ कारणानि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अधिष्ठानं_तथा_कर्ता...&oldid=418395" इत्यस्माद् प्रतिप्राप्तम्