यत्तदग्रे विषमिव...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
- तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तत्रिंशत्तमः(३७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यत् तत् अग्रे विषम् इव परिणामे अमृतोपमम् तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥
अन्वयः
[सम्पादयतु]यत् तत् अग्रे विषम् इव परिणामे अमृतोपमम् आत्मबुद्धिप्रसादजं तत् सुखं सात्त्विकं प्रोक्तम् ।
शब्दार्थः
[सम्पादयतु]- अग्रे = पूर्वम्
- विषम् इव = विषवत्
- परिणामे = परिपाके
- अमृतोपमम् = अमृतसदृशम्
- आत्मबुद्धिप्रसादजम् = स्वमतिनैर्मल्यसञ्जातम् ।
अर्थः
[सम्पादयतु]यत् सुखं पूर्वं विषवत् परिपाके अमृतसदृशं स्वमतिनैर्मल्यसञ्जातं तत् सुखं सात्त्विकं कथितम् ।