न तदस्ति पृथिव्यां वा...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
- सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ॥ ४० ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चत्वारिंशत्तमः(४०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न तत् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैः मुक्तं यत् एभिः स्यात् त्रिभिः गुणैः ॥
अन्वयः
[सम्पादयतु]प्रकृतिजैः एभिः त्रिभिः गुणैः यत् मुक्तंस्यात् तत् सत्त्वं पृथिव्यां न अस्ति, दिवि देवेषु वा पुनः (नास्ति) ।
शब्दार्थः
[सम्पादयतु]- पृथिव्याम् = भूमौ
- दिवि = द्युलोके
- प्रकृतिजैः = प्रकृतिसम्भवैः
- मुक्तम् = त्यक्तम्
- सत्त्वम् = प्राणिजातम् ।
अर्थः
[सम्पादयतु]प्रकृतिस्थितैः सत्त्वादिभिः त्रिभिः गुणैः निर्मुक्तः तादृशः प्राणी भूलोके नास्ति देवलोकेऽपि नास्ति।