शमो दमस्तपः शौचं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वचत्वारिंशत्तमः(४२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

शमः दमः तपः शौचं क्षान्तिः आर्जवमेव च ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥

अन्वयः[सम्पादयतु]

शमः दमः तपः शौचं क्षान्तिः आर्जवम् एव च ज्ञानं विज्ञानम् आस्तिक्यं स्वभावजं ब्रह्मकर्म ।

शब्दार्थः[सम्पादयतु]

शमः = मनोनिग्रहः
दमः = बाह्येन्द्रियनिग्रहः
तपः = विविधं व्रतम्
शौचम् = शुचित्वम्
क्षान्तिः = क्षमा
आर्जवम् = अवक्रता
ज्ञानम् = बोधः
विज्ञानम् = शास्त्रानुभवः
आस्तिक्यम् = आस्तिकभावः
स्वभावजम् = स्वभावजातम्
ब्रह्मकर्म = ब्राह्मणकृत्यम् ।

अर्थः[सम्पादयतु]

तत्र मनोनिग्रहः, बाह्येन्द्रियनिग्रहः, विविधं व्रतम्, शुचित्वम्, क्षमा, अवक्रता, ज्ञानम्, विज्ञानम्, आस्तिक्यं च ब्राह्मणानां स्वभावात् जातं कर्म ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शमो_दमस्तपः_शौचं...&oldid=418825" इत्यस्माद् प्रतिप्राप्तम्