ईश्वरः सर्वभूतानां...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
- भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकषष्टितमः(६१) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥
अन्वयः
[सम्पादयतु]अर्जुन ! ईश्वरः सर्वभूतानि यन्त्रारूढानि मायया भ्रामयन् सर्वभूतानां हृद्देशे तिष्ठति ।
शब्दार्थः
[सम्पादयतु]- ईश्वरः = नारायणः
- सर्वभूतानि = सकलप्राणिनः
- यन्त्रारूढानि = यन्त्राधितिानि इव
- मायया = प्रकृत्या
- भ्रामयन् = चालयन्
- सर्वभूतानाम् = सकलप्राणिनाम्
- हृद्देशे = हृदयप्रदेशे ।
अर्थः
[सम्पादयतु]अर्जुन ! सर्वेषामपि प्राणिनां हृदये ईश्वरो वर्तते । सः तानि सर्वाणि भूतानि यन्त्रारूढानि इव सम्यक् भ्रामयति । अतः त्वं न स्वतन्त्रः । युद्धं न करोमि इति कृतनिर्णयोऽपि अन्ते युद्धं करिष्यस्येव । तस्मात् इदानीमेव मम वचनं पालय ।