तमेव शरणं गच्छ...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तमेव शरणं गच्छ सर्वभावेन भारत ।
- तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्विषष्टितमः(६२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]तम् एव शरणं गच्छ सर्वभावेन भारत तत् प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
अन्वयः
[सम्पादयतु]भारत ! सर्वभावेन तम् एव शरणं गच्छ । तत्प्रसादात् परां शान्तिं शाश्वतं स्थानं प्राप्स्यसि ।
शब्दार्थः
[सम्पादयतु]- सर्वभावेन = सर्वात्मना
- शरणम् = आश्रयम्
- गच्छ = प्राप्नुहि
- तत्प्रसादात् = ईश्वरानुग्रहात् ।
अर्थः
[सम्पादयतु]अर्जुन ! तस्मात् त्वं सर्वात्मना तमेव ईश्वरं शरणं गच्छ, यस्यानुग्रहात् परमां शान्तिं प्राप्नुवन् शाश्वतं स्थानम् अवाप्स्यसि ।