नष्टो मोहः स्मृतिर्लब्धा...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
अर्जुन उवाच -
- नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात्मयाच्युत ।
- स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ ७३ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिषष्टितमः(७३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]नष्टः मोहः स्मृतिः लब्धा त्वत्प्रसादात् मया अच्युत स्थितः अस्मि गतसन्देहः करिष्ये वचनं तव ॥
अन्वयः
[सम्पादयतु]अच्युत ! तव प्रसादात् मोहः नष्टः । स्मृतिः मया लब्धा । गतसन्देहः स्थितः अस्मि । तव वचनं करिष्ये ।
शब्दार्थः
[सम्पादयतु]- अच्युत = श्रीकृष्ण !
- त्वत्प्रसादात् = भवदनुग्रहात्
- मोहः = अविवेकः
- स्मृतिः = स्मरणम्
- लब्धा = प्राप्तम्
- गतसन्देहः = विगतसंशयः
- स्थितः = भूतः
- वचनम् = वाक्यम्
- करिष्ये = आचरिष्यामि ।
अर्थः
[सम्पादयतु]श्रीकृष्ण ! भवदनुग्रहात् अविवेकः अपगतः । कर्तव्यस्मरणं मम जातम् । विगतसन्देहः स्थितः अस्मि । तव वचनम् आचरयिष्यामि ।