सर्वभूतस्थमात्मानं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य नवविंशतितमः(२९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सर्वभूतस्थम् आत्मानं सर्वभूतानि च आत्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

अन्वयः[सम्पादयतु]

योगयुक्तात्मा सर्वत्र समदर्शनः आत्मानम् सर्वभूतस्थम् आत्मनि च सर्वभूतानि ईक्षते ।

शब्दार्थः[सम्पादयतु]

योगयुक्तात्मा = समाहितचित्तः
सर्वत्र = सर्वेषु
समदर्शनः = तुल्यदृष्टिः
आत्मानम् = स्वम्
सर्वभूतस्थम् = निखिलभूतस्थितम्
आत्मनि च = स्वस्मिन् च
सर्वभूतानि = सकलभूतानि
ईक्षते = अवलोकते ।

अर्थः[सम्पादयतु]

समाहितान्तःकरणः सः आत्मानं सर्वेषु अपि भूतेषु पश्यति । आत्मनि च सर्वाण्यपि भूतानि पश्यति । स्थावरजमादिषु सर्वेषु अपि सः निर्विशेषतया ब्रह्म पश्यति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सर्वभूतस्थमात्मानं...&oldid=482173" इत्यस्माद् प्रतिप्राप्तम्