अथवा योगिनामेव...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्विचत्वारिंशत्तमः(४२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अथवा योगिनाम् एव कुले भवति धीमताम् एतत् हि दुर्लभतरं लोके जन्म यत् ईदृशम् ॥

अन्वयः[सम्पादयतु]

अथवा धीमतां योगिनां कुले एव भवति । यत् एतत् ईदृशं हि जन्म लोके दुर्लभतरम् ।

शब्दार्थः[सम्पादयतु]

अथवा = यद्वा
धीमताम् = बुद्धिमताम्
योगिनाम् = युक्तानाम्
कुले एव = वंशे एव
भवति = जायते
यत् एतत् हि = यदिदम्
ईदृशम् = एवंविधम्
जन्म = जन्म
लोके = भुवने
दुर्लभतरम् = अत्यन्तं दुष्प्रापम् ।

अर्थः[सम्पादयतु]

अथवा ब्रह्मविद्यावतां योगिनां कुले जन्म प्राप्नोति । एवं योगिनां कुले जन्मप्राप्तिः तु अत्यन्तं दुर्लभा ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अथवा_योगिनामेव...&oldid=482216" इत्यस्माद् प्रतिप्राप्तम्