पुतिहासस्यम्
इदं पुतिहापत्रम् अपि भारते वर्धमानं किञ्चित् सस्यविशेषम् । इदं पुतिहापत्रम् अपि सस्यजन्यः आहारपदार्थः एव । एतत् पुतिहापत्रम् आङ्ग्लभाषायां Mentha arvensis इति उच्यते । अनेन पर्णेन रोटिका, व्यञ्जनं, क्वथितम्, उपसेचनं चापि निर्मातुं शक्यते । इदं सर्वेषु अपि प्रदेशेषु वर्धते । इदं पुतिहासस्यं लघ्वाकारकं, १ – २ पादमितं वर्धते । अस्य पर्णानां वृन्तं भवति । अस्य पुतिहासस्यस्य पुष्पाणि कोमलानि, शिथिलानि च भवन्ति । अस्य पर्णेषु ८३ % यावत् जलांशः भवति । ४७ % यावत् प्रोटिन्, ०.६ % यावत् चिक्कणतायाः अंशः, ७ % पिष्टांशः, १.६ % यावत् खनिजांशः, २०० ग्रां यावत् क्याल्शियं, ७० मि. ग्रां. यावत् फास्फरस्, १५.६ मि. ग्रां. यावत् अयसः अंशः च भवन्ति । अस्य पत्राणि यथा औषधत्वेन उपयुज्यन्ते तथैव आहारत्वेन अपि उपयुज्यन्ते । तेन पर्णेन उपसेचनं, पुतिहान्नं, पानीयं, पानिपुरि – इत्यादिषु दीयमानः “पानि” इत्येतस्य द्रवपदार्थस्य निर्माणे चापि उपयुज्ज्यते । अस्य पर्णेभ्यः किञ्चित् तैलम् अपि सज्जीक्रियते ।
इतरभाषाभिः अस्य पुतिहासस्यस्य नामानि
[सम्पादयतु]इदं पुतिहासस्यम् आङ्ग्लभाषया “गार्डन् मिण्ट्” इति उच्यते । सस्यकुले इदं पुतिहासस्यं Menthavirdis कुले अन्तर्भवति । हिन्दीभाषया “पुदीना” इति, तेलुगुभाषया “पुदिना” इति, तमिळ्भाषया, मराठीभाषया, बेङ्गालीभाषया चापि “पुदिना” इति, मलयाळभाषया “पुतीयान” इति, कन्नडभाषया “पुदीन” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य पुतिहासस्यस्य प्रयोजनानि
[सम्पादयतु]अस्य पुतिहासस्यस्य रसः कटुः । विपाके अपि कटुरेव । इदं लघु, रूक्षं, तीक्ष्णं चापि । इदम् उष्णवीर्ययुक्तम् ।
- पुतिहासस्यं कफं वातं च परिहरति ।
- इदं वेदनास्थापकं, दुर्गन्धनाशकं च ।
- अस्य उपयोगेन ज्वरः, कासः, श्वासरोगः चापि अपगच्छति ।
- इदं जन्तुघ्नं, विषघ्नं, व्रणरोपणं च ।
- महिलानां मासिकसमस्यासु अपि इदं हितकरम् ।
- अस्य पुतिहासस्यस्य पर्णं केवलम् औषधत्वेन उपयुज्यते । तस्य स्वरसः ५ – १० एम्. एल्. यावत्, पाण्ट २० – ४० एम्. एल्. यावत्, तैलं १ – ३ बिन्दुमितं च उपयोक्तव्यम् ।
- अनेन निर्मितम् “अर्कपुदीना” नामकम् औषधम् आयुर्वेदस्य आपणेषु उपलभ्यते ।