शिशुनाळ शरीफ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


बाल्यम्[सम्पादयतु]

धारवाडमण्डलस्य सिग्गावि-उपमण्डलस्य शिशुनाऴ-इत्येतस्मिन् ग्रामे १८१९ तमे वर्षे मार्च्-मासस्य ७ दिनाङ्के शिशुनाऴशरीफस्य (Shishunala Sharif ) जन्म अभवत् । एतस्य पिता इमाम् साहिब, माता हाजुमा । कन्नडस्य 'मुल्कि'परीक्षायाम् उत्तीर्णतायाः प्राप्त्यनन्तरं तदीयः विद्याभ्यासः स्थगितः इव । पठनं, यक्षगाने भागस्वीकरणं काव्यवाचनस्य श्रवणं च षरीफस्य इष्टतमानि कार्याणि आसन् ।

कौटुम्बिकजीवनम्[सम्पादयतु]

कवि षरीफः अध्यापकरूपेण कानिचन दिनानि कार्यम् अकरोत् । फतिमानामिका कन्या अनेन परिणीता । 'कालरा'रोगस्य कारणतः तदीया एकमात्रपुत्री दिवङ्गता । यदा षरीफः मध्यवयस्कः जातः तदा तदीया पत्नी दिवङगता । एतस्य दुःखस्य विस्मरणार्थं साधु-सन्यासिभिः सह कालं यापयितुम् आरब्धवान् षरीफः ।

गुरोः प्राप्तिः[सम्पादयतु]

अस्मिन् सन्दर्भे गुरुगोविन्दभट्टानां सम्पर्कः जातः । गोविन्दभट्टः जातिभेदं विना षरीफस्य कृते विद्यादानं कृतवान् । एतेन कविः षरीफः महादानन्दम् अनुभूतवान् । ७० वर्षाणि यावत् जीवतवतः षरीफस्य गीतानि उत्तरकर्णाटके बहु प्रसिद्धानि अभवन् । पुरन्दरदासः, कनकदासः, सर्वज्ञः, मुप्पिनषडक्षरि इत्यादीनां श्रेष्ठानां गायकानां गणे विराजते कवि षरीफः ।

गीतरचना[सम्पादयतु]

सरलैः सुन्दरैः गीतैः शिशुनाऴषरीफः प्रसिद्धः कविः जातः । तदीयानि गीतानि सामान्यजनानां मनसि आसक्तिं वर्धयन्ति । जीवनस्य मार्गदर्शकानि सन्ति तानि गीतानि । ज्येष्ठानां तत्त्वं सरलैः शब्दैः अभिव्यञ्जयति षरीफः ।

शिशुनाऴग्रामस्य शिशुनाऴाधीशः बसवः एव तस्य आराध्य दैवम् । सन्निवेशानुगुणम् आशुगीतानि रचयति स्म कवि षरीफः । एतस्य काले अपि असूयापराः निन्दकाः जनाः आसन् एव । तेषां वचनैः खिन्नः सन् कदाचित् षरीफः गुरोः समीपम् अगच्छत् । गुरुः तं समाश्वसन् अवदत् - "हे षरीफ, भवान् कश्चन मदगजः इव । भवान् निन्दकानां विषये कदापि न चिन्तयेत् । औदासीन्यमेव औषधं तस्य" इति ।

अन्तिमकालः[सम्पादयतु]

सर्वदा महापुरुषाणां निकटे तिष्ठन् स्वस्य जीवनं सार्थकम् अकरोत् षरीफः । क्रि .श. १८८९ तमे वर्षे मार्च्-मासस्य ७ दिनाङ्के स्वस्य जन्मदिने एव दिवङगतः । "शरणान् मरणे पश्यतु" इत्युक्यनुगुणं षरीफः “त्यजामि देहं त्यजामि” इति जीवनस्य अन्तिमगीतं गायन् एव मरणं प्राप्तवान् । हिन्दूनां यवनानां बान्धव्यवर्धने षरीफसदृशाः शतशः जनाः अपेक्षिताः सन्ति अस्माकं देशे ।

"https://sa.wikipedia.org/w/index.php?title=शिशुनाळ_शरीफ&oldid=465641" इत्यस्माद् प्रतिप्राप्तम्