वृक्षाम्लफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पक्वम् अपक्वं च वृक्षामलाफलम्
वृक्षामलावृक्षः
वृक्षामलाफलरसः
जले निमज्जितं त्वक्, तत्पार्श्वे दृश्यते तस्य रसः च
शुष्कीकर्तुं संस्थापितं वृक्षामलाफलस्य त्वक्

एतत् वृक्षामलाफलम् अपि भारते वर्धमानः कश्चन फलविशेषः । एतत् वृक्षामलाफलम् अपि सस्यजन्यः आहारपदार्थः । एतत् वृक्षामलाफलम् आङ्ग्लभाषायां kokam इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Garcinia indica इति । प्रायः भारते सर्वेषु अपि प्रदेशेषु अस्य वृक्षामलाफलस्य उपयोगः क्रियते एव । एतत् वृक्षामलाफलम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य वृक्षामलासस्यस्य फलं, पत्रं च उपयुज्यते । अन्यानि अङ्गानि न उपयुज्यन्ते । अनेन वृक्षामलाफलेन अवलेहः, पेयम्, सारः, उपसेचनम् इत्यादिकं सज्जीक्रियते । अस्य फलस्य त्वक् क्वथितादिनिर्माणे तिन्त्रिण्याः स्थाने अपि उपयुज्यते । एतत् वृक्षामलाफलम् आम्लरुचियुक्तम् । अस्य पर्णम् अपि आम्लं भवति ।

"https://sa.wikipedia.org/w/index.php?title=वृक्षाम्लफलम्&oldid=361581" इत्यस्माद् प्रतिप्राप्तम्