कदलीफलरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कदलीफलानि

कदलीफलस्य रसः एव कदलीफलरसः । कदलीफलरसः न तावान् द्रवमयः आहारः । किञ्चित् प्रमाणेन घनरूपः भवति कदलीफलरसः । एतत् कदलीफलम् आङ्ग्लभाषायां Banana इति उच्यते । अस्य रसः च Banana Juice इति उच्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य कदलीफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि कदलीफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं कदलीफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । अयं कदलीफलरसः द्विविधः भवति । एकविधः तु अन्ये फलरसाः इव भवति । अपरविधः "रसायनम्" इति उच्यते । तस्य निर्माणं किञ्चित् भिन्नरूपेण क्रियते । कदलीफले बहवः प्रभेदाः सन्ति । फलानां वर्णस्य रुचेः च अनुगुणं फलरसस्य अपि वर्णः रुचिः च परिवर्तते ।

फलरसस्य निर्माणम्[सम्पादयतु]

अस्य कदलीफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् कदलीफलं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं तत्र शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलायाः चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=कदलीफलरसः&oldid=361120" इत्यस्माद् प्रतिप्राप्तम्