पाणिनीया शिक्षा
परिचयः
[सम्पादयतु]पाणिनीयशिक्षा शिक्षाग्रन्थेषु महत्त्वाधायी एकः ग्रन्थः। शिक्षाग्रन्थास्तु उच्चारणशास्त्रस्य सर्वप्राचीनाः आधारभूताश्च ग्रन्थाः सन्ति। तत्र उपपञ्चविंशतिग्रन्थानामुल्लेखः यत्र तत्र लभ्यते। परन्तु केवलाः केचित् ग्रन्थाः एव अधुना उपलभ्यन्ते। तेषु पाणिनीया शिक्षा नाम ऋग्वेदसम्बन्धिताऽस्ति।
विषयनिरूपणम्
[सम्पादयतु]एवम् अनुष्टुभादिभिः लघुभिः छन्दोभिः निबद्धेयं "पाणिनीया शिक्षा" नाम पुस्तिका लघुतमा च । केवलं षष्टिश्लोकात्मकोऽयं ग्रन्थः । वेदकालीनां शिक्षापद्धतिम् अनुसृत्य इमां शिक्षां (कश्चन) प्राचीनः वैय्याकरणः लिखितवान् इति भाति । यतः अस्मिन् पुस्तके विद्यमानाः अनेके श्लोकाः विविधेषु प्राचीनेषु ग्रन्थेषु उदाहरणरूपेण उद्धृताः दृश्यन्ते । अपि च प्रसिद्धः
- येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
- कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ एषः श्लोकः
तथा च मन्त्रस्वराणां निरूपणान्ते
- मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह ।
- स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥
इत्ययं श्लोकोऽपि अत्रस्थ एव । एवं जनप्रियः विद्वदुपयुक्तश्चायं ग्रन्थः अमरकोष इव बालानां कण्ठपाठाय च अत्यन्तम् उपयुक्तः भवति । किं बहुना संस्कृतशिक्षासौधं प्रविविक्षूणां द्वारमिदम् । अस्मिन् पुस्तके पाणिनीयाम् अष्टाध्यायीम् अनुसृत्य वर्णानां सङ्ख्यापनं, विभागः, संज्ञाः, बाह्याभ्यन्तराः प्रयत्नाः, कण्ठादीनि वर्णोच्चारणस्थानानि, अनुस्वारानुनासिकयोर्व्यवस्था, उदात्ताणुदात्तस्वरितानाम् स्वराणाम् निरूपणम्, उदात्तादिभिः स्वरैः निषादादीनां स्वराणां समीकरणम्, इत्यादीनि मनोज्ञानि निरूपणानि भवन्ति । प्रसङ्गवशात् अत्र वेदपाठकस्य गुणाः, दोषाश्च निर्दिष्टाः सन्ति ।
पुरातनकाले संस्कृतं जनभाषाऽऽसीत् इति अनेन ज्ञायते, यथा- यथा सौराष्ट्रिका नारी तक्राँ इत्यभिभाषते ।
वर्णाः कथं प्रयोक्तव्याः इति निर्दिशन् अयं ग्रन्थकारः वदति, यथा- व्याघ्री यथा हरेत्पुत्रान् दंष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत् ॥ इति ।
कर्ता कः ?
[सम्पादयतु]व्याकरणशास्त्रे शिक्षायाः स्थानं प्रतिपादयन् वदति यत् शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ इति । एतस्य पुस्तकस्य पठनानन्तरं भासते यत् पाणिनिरेव ग्रन्थमेनं रचितवान् स्यादिति । किन्तु अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा इति अत्रैव सूचितत्वात् पाणिनेः अर्वाचीनः कोऽपि वैय्याकरणः ग्रन्थमेनं चकार इति निर्णेतुं शक्यते ।
मूलपाठनिदर्शनानि
[सम्पादयतु]अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्वं तद्विद्यात् यथोक्तं लोकवेदयोः ॥१॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥२॥ त्रिषष्टिश्चतुष्षष्टिर्वा वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥३॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥४॥ अनुस्वारो विसर्गश्च कपौ चापि परिश्रितौ । दुस्पृष्टश्चेति विज्ञेयो लृकारः प्लुत एव च ॥५॥