कर्नाटकगुरुकुलयोजना (संस्कृतक्षेत्रे नूतनः उपक्रमः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्नाटकगुरुकुलयोजना
कर्नाटकगुरुकुलयोजना-संस्कृतक्षेत्रे नूतनः उपक्रमः।
कर्नाटकगुरुकुलयोजना-संस्कृतक्षेत्रे नूतनः उपक्रमः।


संस्कृतक्षेत्रे दृश्यन्ते केचन विरोधाः। तत्रैकः वेदशास्त्रयोः विरोधः, ये वेदाध्यायिनः ते प्रायः वेदमात्रनिष्ठाः तदर्थावगमने न प्रयतन्ते, ये च शास्त्राध्यायिनः ते यदर्थप्रकाशनाय प्रवृत्तानि शास्त्राणि स्वरविशिष्टस्य वेदस्य अध्ययने न मनः संयोजयन्ति। अपरः संस्कृतशास्त्रयोः। संस्कृतम् अधीयानाः अपि केचन भाषामात्रत्वेन तं पठन्तः, सा भाषा यदवगमनाय कुञ्चिकायमाना विद्यते तं विस्मरन्ति। शास्त्रज्ञाः शास्त्रवित्वमेव बहुमन्यमानाः भाषायाः अवगमने तद्भाषणे च न यतन्ते। अन्यः आर्षाधुनिकयोः। ये च शास्त्रेषु कृतप्रयत्नाः ते तानि शास्त्राणि आधुनिकक्रमेण, आधुनिकमाध्यमेन च उपस्थापयितुं क्लिश्यन्ति, ये च आधुनिकविचारक्रमे माध्यमे च निष्णाताः, ते शास्त्रेषु अप्राप्तसिद्धयः सन्तः क्लिश्यन्ति तथ्योपस्थापने।

एतेषां विरोधानां परिहाराय, वेदशास्त्रोभयनिष्ठान् संकृतप्रियान् आधुनिकविचारे माध्यमे च गतिमतः विदुषः निर्माणाय कर्नाटकगुरुकुलयोजना १५ वर्षेभ्य प्राक् आरब्धा। प्रबोधिनीगुरुकुलं, वेदविज्ञानगुरुकुलं, मैत्रेयीगुरुकुलम् इति गुरुकुलत्रयं कर्नाटके विद्यते।

गुरुकुलस्य विशिष्टाः अंशाः –
[सम्पादयतु]
• विश्वविद्यानिलयपरीक्षानिरपेक्षतया द्वादशवर्षाणाम् अध्ययनम्।
• प्रतिदिनं पूर्वाह्ने शास्त्राणां साम्प्रदायिकक्रमेण अपराह्ने वेदानां गुरुमुखोच्चारणानूच्चारणाक्रमेण अध्ययनम्।
• वेदशास्त्राभ्यां सह English, Computer, Science इत्यादीनामपि विषयाणां तद्विदैः अवगमनम्।
• विद्वत्सु सामाजिकदृष्ट्याधानम्।
• छात्राणां समग्रविकासार्थं वेदः विज्ञानं योगः कृषिः कलाकौशलम् इति पञ्चमुखिशिक्षण्म्
• प्रशासनिकव्यवस्थापेक्षया पारिवारिकव्यवस्थायाः प्राधान्यम्।
• प्राचीनगुरुकुलवत् अधीयानेभ्यः द्विशताधिकच्छात्रेभ्यः अशनवसनवैद्यकीयव्यवस्था शुल्करहिता।