श्लेषः
दिखावट
यत्र बहूनां पदानामेकपदवदवभासमानत्वं तत्र श्लेषः(Shlesha) । सन्धिवशात् बहून्यपि पदान्येकपदवत् भासमानानि भवन्ति । कदाचित् तुल्यस्थानजनितानां वर्णानां समाहारेणाऽपि श्लेषस्सिध्यति । इमं श्लेषं विद्यानाथो मिथस्संश्लिष्टपदत्वमिति प्रत्यपादयत् । यथा –
- श्रीमत्काकतिवीररुद्रमखिलक्ष्मापालमौलिस्फुरन्माणिक्यद्युतिरञ्जिताङ्घ्रिमखिलप्रख्यातशौर्योदयम् ।
- विश्वत्राणविनिद्र मक्षयगुणज्योत्स्नावितानावृतव्योमागारमनल्पवैभवममुं स्तोतुं वयं नेश्महे ॥
अत्र पाठसमयेऽनुरुपसङ्गमवशात्पदानामेकपदवदवभासमानत्वप्रतीतेः, श्लेषः । यत्र पदयोर्मध्ये एकस्य हलन्तत्वमपरस्य हलादित्वं च भवति तत्र प्रायशः संश्लेषो दुर्घटो भवति । यत्र च पदान्ताद्यो रेकत्र हल् अपरत्राच च भवति तत्र संश्लेषस्साधु भातीति वक्तुं शक्यते ।