श्लेषः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


यत्र बहूनां पदानामेकपदवदवभासमानत्वं तत्र श्लेषः(Shlesha) । सन्धिवशात् बहून्यपि पदान्येकपदवत् भासमानानि भवन्ति । कदाचित् तुल्यस्थानजनितानां वर्णानां समाहारेणाऽपि श्लेषस्सिध्यति । इमं श्लेषं विद्यानाथो मिथस्संश्लिष्टपदत्वमिति प्रत्यपादयत् । यथा –

श्रीमत्काकतिवीररुद्रमखिलक्ष्मापालमौलिस्फुरन्माणिक्यद्युतिरञ्जिताङ्घ्रिमखिलप्रख्यातशौर्योदयम् ।
विश्वत्राणविनिद्र मक्षयगुणज्योत्स्नावितानावृतव्योमागारमनल्पवैभवममुं स्तोतुं वयं नेश्महे ॥

अत्र पाठसमयेऽनुरुपसङ्गमवशात्पदानामेकपदवदवभासमानत्वप्रतीतेः, श्लेषः । यत्र पदयोर्मध्ये एकस्य हलन्तत्वमपरस्य हलादित्वं च भवति तत्र प्रायशः संश्लेषो दुर्घटो भवति । यत्र च पदान्ताद्यो रेकत्र हल् अपरत्राच च भवति तत्र संश्लेषस्साधु भातीति वक्तुं शक्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=श्लेषः&oldid=409786" इत्यस्माद् प्रतिप्राप्तम्