पिप्पली
दिखावट
Long pepper | ||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
पिप्पल्याः पर्णानि फलानि च
| ||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||
| ||||||||||||||
द्विपदनाम | ||||||||||||||
Piper longum L. | ||||||||||||||
इदं पिप्पलीसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । वस्तुतः इयं काचित् लता । तस्मात् कारणात् आधारम् अवलब्य एव वर्धते । अस्याः पिप्पलीलतायाः पर्णानि २ – ३ अङ्गुलं यावत् विशालानि दीर्घाणि च भवन्ति । अस्याः फलानि लघ्वाकारकाणि, ०.५ – १ अङ्गुलं यावत् व्यासयुक्तानि च भवन्ति । तानि वर्धनस्य अनन्तरं (पक्वानन्तरं) कृष्णवर्णीयानि भवन्ति ।
इतरभाषाभिः अस्य पिप्पलीसस्यस्य नामानि
[सम्पादयतु]इदं पिप्पलीसस्यम् आङ्ग्लभाषया “लाङ्ग् पेप्पर्” इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति B. N. Piper Longum अथवा N. O. Piperaceve इति । हिन्दीभाषया इदं पिप्पलीसस्यं “पिप्पल्” इति, तेलुगुभाषया “पिप्पळ्ळु” इति, तमिळ्भाषायां “पिप्पली” इति, कन्नडभाषया “हिप्पलि” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य पिप्पलीसस्यस्य प्रयोजनानि
[सम्पादयतु]अस्य पिप्पलीसस्यस्य रसः कटुः । अनुरसः मधुरः च । इदं स्निग्धं, तीक्ष्णंचापि । इदम् अनुष्णवीर्ययुक्तं, विपाके मधुरं भवति ।
- १. पिप्पलीसेवनेन अग्निवृद्धिः भवति ।
- २. अस्य रसायनं यकृत्-विकारान्, क्रिमिबाधां च निवारयति ।
- ३. इदं रक्तवर्धकम् अपि । रक्तहीनतया पीड्यमानानाम् उत्तमम् ।
- ४. कासेन, श्वासरोगेन पीड्यमानाः अस्य उपयोगं न कुर्युः ।
- ५. इदं मूत्रं वर्धयति, ज्वरं निवारयति चापि ।
- ६. इदं गर्भाशयं सङ्कोचयति अपि । अतः प्रसवानन्तरं सेवनं हितकरं भवति ।
- ७. अस्य स्वरसः १ – २ ग्रां, चूर्णं ५ ग्रां यावत् सेवितुं शक्यते ।
- ८. अनेन निर्मितानि “त्रिकटुचूर्णम्”, "पञ्चकोलचूर्णम्”, "सीतोपलादिचूर्णम्” चापि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।