पुट:।
दिखावट
पुट:।
प्रतिचरणम् अक्षरसङ्ख्या १२
वसुयुगविरतिर्नौ पुटोऽयम्। केदारभट्टकृत- वृत्तरत्नाकर:३. ५१
।।। ।।। ऽऽऽ ।ऽऽ
न न म य ।
यति: अष्टभि: चतुर्भि: च।
उदाहरणम् -
यदि विगलितधर्म: स्यादधर्म: प्रबल इह तदात्मानं सृजामि। सदवनमसदुद्ध्वंसं विधातुं, रचयितुमपि धर्ममर्जुनेह॥