विकिपीडिया:शैलीपथप्रदर्शकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एतत् पृष्ठं विकिपीडियायां लेखनार्थम् एकस्याः समीचीनायाः शैल्याः निर्देशनं करोति। परन्तु यथा हि ज्ञायते न सर्वाः भाषाः एकां शैलीम् अनुसरन्ति। पृष्ठं चैतत् आदौ आङ्ग्लविकिपीडियायाः निर्देशान् अवलम्ब्य तत्रस्थान् संस्कृतप्रतिकूलान् निर्देशाँश्च विलोप्य लिख्यते। कालेन अत्र नूतनाः निर्देशाः अपि आगच्छेयुः। परन्तु नात्र यदृच्छया लेखितव्यम्। यत्र कुत्रापि संशयः भवेत् तत्र चर्चा आवश्यकी। सर्वसम्मतिं च वीक्ष्य नियमाः निर्धारितव्याः।

शैलीपथप्रदर्शकं नाम सर्वेभ्यः विकिपीडियालेखेभ्यः एका शैलीनिर्देशावलिः अस्ति। पृष्ठमेतत् (एतस्य उपपृष्ठानि च, विद्यन्ते चेत्) शैलीविषयान् अधिकृत्य लिखितानि (यथा हि विरामचिह्नप्रभृतयः), क्वचिदत्र विस्तरशः निर्देशाः स्युः क्वचिच्च प्रधानविषयाः केवलाः।

शैलीपथप्रदर्शकस्य उद्दिष्टम् अस्ति यत् सम्पादका अत्र लेखेषु अविचलां, स्पष्टाम् अभ्रान्तां च भाषाम्, आकारं, प्रारूपं च प्रयोजयन्तु । येन च विश्वकोशोऽयं सरलतरः सुबोधश्च भवेत्।

विश्वकोशे तु लेखनं स्पष्टं संक्षिप्तं च स्यात्। नाम भाषा सरला स्यात्। द्व्यर्थिता बह्वर्थिता च निवारितव्या। तथा हि कठिनाः शब्दाः अथवा अस्पष्टा जटिला वा शब्दावलिः निवारयितव्याः।


यत्र च एकाधिकाः शैल्यः स्वीकारक्षमाः स्युः तत्र न दोषः। तदा च नैकः सम्पादकः अन्यस्य शैलीं परिवर्तयितुम् अर्हति, यावत् समीचीनं कारणं न स्यात्। अत्र न किमपि प्रतिनिवर्तनयुद्धं सह्यम्।

विकिपीडियायां संस्कृतलेखने शैलीविषये यत्रापि सन्देहः स्यात् तस्य निर्णयार्थं विचारमण्डपे चर्चां कर्त्तुं शक्यते। ततश्च केचिन्निर्णयाः शैलीपथप्रदर्शकेऽपि लेखितुं शक्यन्ते।

स्थूलाक्षराणि[सम्पादयतु]

विकिपीडियालेखेषु स्थूलाक्षराणि (एतादृशः पाठः) तु बहुप्रयुक्तानि। परन्तु निश्चितानि खलु तेषां प्रयोगस्थानानि।


लेखशीर्षकस्य पुनरुल्लेखे[सम्पादयतु]

प्रायेण स्थूलाक्षराणां दर्शनं तु भवति प्रथमे परिच्छेदे। तत्र लेखशीर्षकं पुनः आगच्छति चेत् तत्तु स्थूलाक्षरैः दर्श्यते, तथैव लेखशीर्षकस्य पर्यायशब्दानां विषये भवति।

अन्यानि प्रयोगस्थानानि[सम्पादयतु]

शेषे तु लेखे स्थूलाक्षराणां प्रयोगः केवलेषु विशिष्टप्रकरणेषु कर्त्तव्यः।

  • तालिकाशीर्षिकासु तालिकानामपटे च (स्वतः एव स्थूलाक्षरैः आगच्छति तालिकाप्रारूपेण)।
  • परिभाषासूचिकासु (यथा: शब्दावली दीयते चेत्)।
  • गणिते प्रयुक्तानि तानि चिह्नानि यानि तु रूढिना स्थूलाक्षरैः दातव्यानि।

तिर्यक्-अक्षराणि (इटैलिक्स् इत्याख्यानि)[सम्पादयतु]

विकिपीडियायाम् अधुनातनपरम्परामाश्रित्यैव तिर्यक्-अक्षराणां (एतादृशः पाठः) प्रयोगं कर्त्तुं शक्यते, तद्यथा:

  • केषुचित् वैज्ञानिकनामसु।
  • जीवानां वैज्ञानिकनामसु। तत्र वंशः (जीनस् इति) निम्नतराश्च नामभागाः (जातिः उपजातिश्च) तिर्यक्-अक्षरैः लिख्यन्ते, न तु उच्चतराः। सर्वमपि वैज्ञानिकनाम तिर्यक्-अक्षरैः लेखितव्यम्।
  • जीन् (Genes) इति आनुवंशिकतत्त्वानां नामसु।

चेत्यादीनि।

अपि द्रष्टव्यम्[सम्पादयतु]