बेलं गुहा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बेलं गुहा आन्ध्रप्रदेशस्य कर्नूलमण्डले चतुसाहस्रवर्षप्राचीना दीर्घा गुहा अस्ति । ३.५ कि.मीटर् दीर्घा गुहा प्रपञ्चे एव द्वितीया इति प्रसिध्दास्ति । एतत्सदृशीगुहा भारते मेघालयराज्ये अपि एका अस्ति । एतां किम् उं लावेन केव्स् इति वदन्ति ।

अन्तर्भागः
गुहायाः प्रवेशद्वारम्

बेलं गुहा शालिक्षेत्राणां मध्ये सुधाशिलाप्रदेशेऽस्ति । क्रिस्ताब्दे १९८२ -८४ तमे समये युरोपदेशीयः राबर्ट ब्रूस् फुट् महोदयः एतां गृहां ज्ञातवान् । गुहां प्रवेष्टुं ३० पादपरिमितम् अधः गन्तव्यम् । सोपानानि सन्ति । गुहां प्रति नेतुं मार्गदर्शकाः सन्ति । अन्तः वायुनियन्त्रणव्यवस्था दीपानां व्यवस्था च अस्ति । १.५ कि. दूरं यावत् गन्तुं शक्यम् । मार्गः सुगमः नास्ति । क्वचित् विशालं भवनं क्वचित् च कष्टतरमार्गः , क्वचित् निर्झराणि एवम् प्रयासेनैव गन्तव्यम् अस्ति । सिंहद्वारम् आकर्षकम् अस्ति । लम्बमानाः सिंहाकृतयः तत्र सन्ति । सुधाशिलाः अत्र कोटिलिङ्गरुपेण भान्ति । पाताललिङ्गदर्शनम् अन्तिमस्थानमस्ति । पुनः बहिरागमनसमये सप्तस्वरगुहा दर्शनीया अस्ति । तत्र शिलासु मधुरध्वनिः श्रोतुं शक्यते ।

वाहनमार्गः[सम्पादयतु]

बेङ्गळूरुतः २६० कि.मी । विशाखपट्टणतः ९० कि.मी । हैदराबाद्तः ३२० कि.मी । चेन्नै कर्नूलुतः च वाहनसम्पर्कः अस्ति । वसतिव्यवस्था अत्र अस्ति । प्रवेशकालः प्रातः १० वादनतः । सायम् ५ वादनम् ।

"https://sa.wikipedia.org/w/index.php?title=बेलं_गुहा&oldid=370821" इत्यस्माद् प्रतिप्राप्तम्