ओरिस्साराज्यस्य सागरतीराणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



ओरिस्सा राज्यस्य सागरतीराणि

कोणार्कबीच्[सम्पादयतु]

ओरिस्साराज्ये बङ्गलोपसागरतीरे स्थितम् एतत् स्थानम् अतीव स्वच्छं सुन्दरं च अस्ति । अत्र सागरतरङ्गानां शब्दः rolling cracleorsa इति कथयन्ति । दूरतः अपि एषः शब्दः श्रोतुं शक्यते । पुरीनगरतः ३५ कि.मी दूरे एतदस्ति ।

पुरी-गोल्डन् बीच्[सम्पादयतु]

पुरीनगरस्य समीपे गोल्डन् बीच् इति सुन्दरं सागरतीरमस्ति विहारयोग्यं स्नानयोग्यमिदं स्थलम् । प्रतिदिन सहस्रशः जनाः अत्र आगच्छन्ति । पुरीनगरे जगन्नाथमन्दिरम् अत्यन्त विशिष्टमस्ति । पुरीशक्तिपीठेषु अन्यतमम् अस्ति । जगन्नाथमन्दिरतः समुद्रमार्गे चैतन्यप्रभोः साधना क्षेत्रमस्ति । गभीरामठ इति तत् निर्दिश्यते ।

गोपालपुर आन् सी[सम्पादयतु]

पूर्वमेतत् नौकानिस्थानमासीत् । इदानीं जनप्रियं सागरतीरमस्ति । नारिकेळवृक्षाणां वाटिकाः सर्वत्र सन्ति । समुद्रस्नानाय योग्यमिदं स्थलम् । सागरतरङ्गेषु नौकायानम् आनन्ददायकं भवति ।

धूमशकटमार्गः[सम्पादयतु]

बर्हाम्पुरनिस्थानतः १८ कि.मी ।

वाहनमार्गः[सम्पादयतु]

कोलकता-चेन्नैमार्गे (राष्ट्रियराजमार्गः बर्हाम्पुरपर्यन्तं गन्तव्यम् । भुवनेश्वरविमाननिस्थानतः आगन्तुं शक्यते ।