चक्रासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चक्रासनं योगासनेषु अन्यतमम् ।

आसनकरणविधिः[सम्पादयतु]

  • शवासने शयनं करोतु ।
  • जानुतः पादद्वयं पुटीकृत्य, गुल्फद्वयं नितम्बयोः समीपं स्थापयतु ।
  • करतलद्वयं मस्तकम् उभयतः स्थापयतु ।
  • शनैः शनैः हस्तद्वयं पादद्वयं च दृढतया भूमिं नोदयन् पूरकं कुर्वन् शरीरभागम् ऊर्ध्वदिशि उत्थापयतु ।
  • मेरुदण्डः वक्राकारेण भवतु ।
  • शरीरं चक्रवत् शोभते ।
  • पञ्चनिमेषान् यावत् अस्याम् अवस्थायां स्थित्वा शनै शनैः रेचकपूर्वकं सामान्यावस्थां प्रति आगच्छतु ।

लाभः[सम्पादयतु]

  • मणिबन्धः, बाहू च दृढौ भवतः ।
  • मस्तकं प्रति रक्तसञ्चालनं सम्यक् भवति ।
  • वक्षस्थलस्य पेशीनां, श्वासकोषस्य च सम्प्रसारणत्वात् श्वासक्रिया सुलभा भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चक्रासनम्&oldid=409231" इत्यस्माद् प्रतिप्राप्तम्