दक्षिणकन्नडलोकसभाक्षेत्रम्
कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् अस्ति दक्षिणकन्नडलोकसभाक्षेत्रम् । २००८तमे वर्षे यदा लोकसभाक्षेत्राणां पुनर्घटनम् अभवत् तदा एतत् क्षेत्रम् अस्तित्वे आगतम् । पूर्वं मङ्गळूरुलोकसभाक्षेत्रम् इति नाम्ना पृथक् क्षेत्रम् आसीत् । पुनर्घटनात् पूर्वं बेळ्तङ्गडीविधानसभाक्षेत्रं चिक्कमगळूरुलोकसभाक्षेत्रे अन्तर्भवति स्म। बण्ट्वाळविधानसभाक्षेत्रं , मूडबिद्रिविधानसभाक्षेत्रं, तथा सुरत्कलविधानसभाक्षेत्रं (इदानीं तस्य उत्तरमङ्गळूरुनगरविधानसभाक्षेत्रम् इति नामकरणं कृतम् अस्ति।) उडुपीलोकसभाक्षेत्रे अन्तर्भवन्ति स्म । एतेन सह समग्रं कोडगुमण्डलं तन्नाम मडिकेरीविधानसभाक्षेत्रं, विराजपेटेविधानसभाक्षेत्रं, सोमवारपेटेविधानसभाक्षेत्रं मङ्गळूरुलोकसभाक्षेत्रे अन्तर्भवन्ति स्म । पुनर्घटनानन्तरम् मङ्गळूरुविधानसभाक्षेत्रस्य दक्षिणमङ्गळूरुनगरविधानसभाक्षेत्रम् इति उळ्ळालविधानसभाक्षेत्रस्य मङ्गळूरुविधानसभाक्षेत्रम् इति पुनर्नामकरणम् कृतम् ।
विधानसभाक्षेत्राणि
[सम्पादयतु]विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या | नाम | आरक्षितम्(SC/ST/इतरे) | मण्डलम् |
---|---|---|---|
२०० | बेळ्तङ्गडी | इतरे | दक्षिणकन्नडमण्डलम् |
२०१ | मूडबिद्रि | इतरे | दक्षिणकन्नडमण्डलम् |
२०२ | उत्तरमङ्गळूरुनगरम् | इतरे | दक्षिणकन्नडमण्डलम् |
२०३ | दक्षिणमङ्गळूरुनगरम् | इतरे | दक्षिणकन्नडमण्डलम् |
२०४ | मङ्गळूरु | इतरे | दक्षिणकन्नडमण्डलम् |
२०५ | बण्ट्वाळ | इतरे | दक्षिणकन्नडमण्डलम् |
२०६ | पुत्तूरु, | इतरे | दक्षिणकन्नडमण्डलम् |
२०७ | सुळ्ळ्य | SC | दक्षिणकन्नडमण्डलम् |
लोकसभासदस्याः
[सम्पादयतु]वर्षम् | लोकसभासदस्यः | पक्षः |
---|---|---|
२००९ | नळीनकुमार कटिलु | भारतीयजनतापक्षः |