रामनाथन् कृष्णन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


रामनाथन् कृष्णन् भारतस्य एकः लानं क्रीडालुः आसीत् ।

परिचयः[सम्पादयतु]

रामनाथन् कृष्णन्वर्यः १९३७ तमे वर्षे एप्रिल् मासस्य ११ दिनाङ्के भारतदेशस्य चेन्नैनगरे जन्म प्राप्तवान् । तस्य द्वौ पुत्रौ रमेशकृष्णन्, निर्मल् शेखर् च स्तः । टि के रामकृष्णन् अस्य पिता । रामनाथन् कृष्णन्वर्यः तस्य पितृचरणानां समीपे क्रीडायाः कौशलम् अधीतवान् । १९५० तमात् वर्षदारभ्य १९६० तमवर्षपर्यन्तं मध्यकालीने अन्ताराष्ट्रियस्तरे सः अग्रगण्यः क्रीडालुः आसीत् । १९६०, १९६१ तमे वर्षे च विम्बल्डन् प्रागुपान्त्यक्रीडापर्यन्तं क्रीडितवान् । विश्वश्रेण्यां ३ स्थानंप्राप्तवान् ।

अन्ताराष्ट्रियचरितम्[सम्पादयतु]

  • १९५४ तमे वर्षे बालकानां विम्बल्डन् क्रीडायां रामनाथन् कृष्णन्वर्यः अश्ले कूपर्(Ashley Cooper) विरुद्धं जितवान् । विम्बल्डन्क्रीडायाः उपाधिसूच्यां एष्याखण्डात् बालक्रीडालवेषु रामनाथन् कृष्णन्वर्यः प्रथमवारं जितवान् ।
  • १९६० तमे वर्षे विम्बल्डन्प्रागुपान्त्यक्रीडापर्यन्तं क्रीडितवान् । तस्यां क्रीडायां नील् फ्रेसर्(Neale Fraser) विरुद्धं पराजयं प्राप्तवान् ।
  • १९६१ तमे वर्षे विम्बल्डन्प्रागुपान्त्यक्रीडापर्यन्तं क्रीडितवान् । तस्यां क्रीडायां राड् लेवर्(Rod Laver) विरुद्धं पराजयं प्राप्तवान् ।
  • १९६२ तमे वर्षे विम्बल्डन्क्रीडायां पादस्य अनारोग्यवशेण क्रीडायाः मध्ये त्यक्तवान् ।
  • १९६६ तमे वर्षे डेविस्कप् अन्तिमक्रीडा पर्यन्तं क्रीडितवान् ।

पुरस्काराः[सम्पादयतु]

पुस्तकम्[सम्पादयतु]

रामनाथन् कृष्णन्वर्यः ए टच् आफ् टेन्निस् : द स्टोरि आफ् ए टेन्निस् फामिलि इत्येतत् नाम्नि पुस्तकं लिखितवान् । एतत् पुस्तकं तस्य पुत्रयोः सह मिलित्वा लिखितवन् । पुस्तकमिदं पेङ्ग्विन् बुक्स्, इण्डिया इत्येते प्रकाशितवन्तः ।

प्रस्तुतम्[सम्पादयतु]

रामनाथन् कृष्णन्वर्यः इदानीं चेन्नैनगरे निवसति । सः एकाम् अनिलवितरणसंस्थां चालयन् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=रामनाथन्_कृष्णन्&oldid=367293" इत्यस्माद् प्रतिप्राप्तम्