विकिपीडिया:स्वशिक्षा/सम्पादनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


परिचयःसम्पादनम्विन्यासःविकिपीडियासम्पर्कःउल्लेखःसम्भाषणपृष्ठम्अवधेयम्पञ्जीकरणम्उपसंहारः
"वैदिकधर्मः 'सम्पाद्यताम्'"वैदिक सनातनधर्मः ,वैदिक सनातन वर्णाश्रम धर्मः इत्यत्र गत्वा लेखः सम्पादयितुं शक्यः

सम्पादनस्य सोपानानि[सम्पादयतु]

विकिपीडियायां विशिष्टानि कानिचन पृष्ठानि विहाय अन्यत्र सर्वत्रापि "सम्पाद्यताम्" इति लेखस्य उपरि दृश्यते । यत्र नोदनेन तस्य लेखस्य "सम्पादनं" कर्तुं शक्यम् । एषा सम्पादनव्यवस्था विकिपीडियायाः मूलभूतसौलभ्येषु अन्यतमा । सम्पादनं नाम कस्यचन पृष्ठस्य परिष्करणं विषयवर्धनं वा । विषयवर्धनावसरे आकरः (reference) अवश्यं देयः, यतो हि प्रमाणं विना लिखितानां विषयाणां निष्कासनं भवेत् ।

सम्पादनाभ्यासाय प्रयोगपृष्ठम् गत्वा "सम्पाद्यताम्" इत्यत्र नुदतु । इदानीं सम्पादनाय पृष्ठमेकम् उद्घाटितं भवति । यत्र तस्य पृष्ठस्य मूलपाठः दृश्यते । सः अपेक्षानुगुणं परिष्कर्तुं वर्धयितुं वा शक्यः । एतदनन्तरम् अधः "पृष्ठं रक्ष्यताम्"(save) इत्यत्र नुद्यताम् । कृतं कार्यं द्रष्टुं शक्यम् इदानीम् ।

सम्पादनस्य सारांशः[सम्पादयतु]

विकि-शिष्टाचारे "पृष्ठं रक्ष्यताम्" इत्यत्र नोदनात् पूर्वं "सारांशः" इति रिक्तस्थाने भवता सद्यः कृतस्य सम्पादनस्य सारः संक्षेपेण लेखनीयः यथा- ’वाक्यशुद्धिः’ ’पदशुद्धिः’ इत्यदि । एतत् सौलभ्यं पञ्जीकृतसदस्यानामेव उपलभ्यते । अग्रे पञ्जीकरणस्य विषयेऽपि पाठनं भविष्यति ।

प्राग्दृश्यं दृश्यताम्[सम्पादयतु]

प्राग्दृश्यं दर्श्यताम् इत्येतत् सारांशः इति पुटस्य अधः अस्ति

भवता सर्वदा प्राग्दृश्यं दर्श्यताम् इत्यस्य उपयोगः करणीयः । प्रयोगपृष्ठे कृतस्य सम्पादनस्य रक्षणात् पूर्वं परिवर्तनानि द्रष्टुं "प्राग्दृश्यं दर्श्यताम्" इत्यत्र नुदतु । एतत् दृष्ट्वा सर्वान् अक्षरदोषान् भाषादोषान् च निवार्य अनन्तरमेव लेखः रक्षणीयः । परन्तु स्मर्तव्यं यत् प्राग्दृश्यस्य दर्शनानन्तरं "पृष्ठं रक्ष्यताम्" इत्यत्र गत्वा अवश्यमेव सम्पादितः लेखः रक्षणीयः ।

पृष्ठं रक्ष्यताम्[सम्पादयतु]

सम्पादनस्य सारांशः लिखितो वा ? प्राग्दृश्यं दृष्ट्वा दोषाः निवारिताः वा ? तर्हि लेखः इदानीं रक्षितुं सिद्धः । इदानीं "पृष्ठं रक्ष्यताम्" इत्यत्र नुदतु ।


शिक्षितं प्रयोगपृष्ठे प्रयुञ्जताम्