सम्भाषणम्:राष्ट्रियपक्षी
Shubhaजी एतत् तु अयोग्यं, विकि-नियमविरुद्धं च । भवती सर्वदा मां नियमविषये वदन्ती भवति । अहं भवत्या उक्तनियमानुसारं कार्यं कर्तुं सर्वदा प्रयासं करोमि । परन्तु भवती स्वयमेव नियमान् उल्लङ्घति चेत् मया किं वक्तव्यम् ?
एकस्मिन् पृष्ठे यदि अयोग्यम् अस्ति, तर्हि सम्भाषणमाध्यमेन अन्ययोजकानां परामर्शः ज्ञातव्यः, ततः कार्यं कर्तव्यम् इति विकि-नियमः । तथात्र भवती नाकरोत् । भवतु । परन्तु भवत्या एव पूर्वं मार्गदर्शनं कृतम् आसीत् यत्, वर्गादि सर्वं आङ्ग्लविकि-अनुसारं मृत्युञ्जयकर कुर्वन् अस्ति । अतः तस्य कार्यं समीचीनमेव स्यात् । अतः तथैव कार्यं करणीयम् इति । अधुना अहं तथा कुर्वन् अस्मि तथापि भवती कृतं कार्यं नष्टं करोति ।
आङ्गलविकि-मध्ये https://en.wikipedia.org/wiki/National_symbols_of_India पृष्ठे https://en.wikipedia.org/wiki/National_bird इति पृष्ठे मया दृष्टम् । तदनुसारम् अहम् एतत् पृष्ठं निर्मितवान् । अहम् अपश्यं यत् भवती मया निर्मितानाम् अनेकानां पृष्ठानाम् अयोग्यरीत्या चाल्यातम्, अपाकरणं वा अकरोत् । प्रबन्धः योजकानां साहाय्यं करोति, तेषां मार्गदर्शनं करोति, परामर्शं स्वीकृत्य कार्यं करोति इति विकि-नियमानुसारम् । परन्तु अत्र मम अनुपस्थितौ नष्टात्मकं कार्यम् एवाहं पश्यामि । अकारणं कार्यं करणापेक्षया वकि-सम्बद्धानि टेकनिकल-कार्याणि वकि-लाभाय भवेत् इति मे मतम् ।
पुरा मया आचरितानां दोषानां कृते अहं बहुवारं क्षमायचानाम् अकरवम् । परन्तु भवती पुर्वाग्रहं मनसि निधाय सर्वदा मम दोषान् एव पश्यति । अहं बहुवारं प्रयासम् अकरवम् यत्, मिलित्वा कार्यं कुर्मः इति । अतः बहुवारं मार्गदर्शनम् अपि स्वीकृतम् । परन्तु गुजरात-केन्द्रं तु स्वतन्त्रं केन्द्रम् इति उक्त्वा यद् दलस्य विघटनं कृतं भवत्या, तेन प्रकल्पस्य कार्यमेव विलम्बेन भवति । अत्र यद् कार्यं पञ्चघण्टायां भवति, तत् ज्ञातारः भवन्तः पञ्चनिमेषेषु समाप्तं कर्तुं शक्नुवन्ति इति विचिन्त्य एव अहं मार्गदर्शनम् इच्छामि स्म । परन्तु अत्रापि मम प्रश्नः नास्ति । कारणं तस्य कृते यद् कारणं दत्तं, तत् व्यावहारिकदृष्ट्या (सङ्गटनदृष्ट्या अयोग्यमेव) योग्यम् अस्ति । न जाने अस्य किं परिणामं भविष्यति ? परन्तु अस्य पृष्ठे मम भावः अस्ति यत्, मिलित्वा कार्यं भवेत् (सर्वसम्मत्या) । ॐNehalDaveND (✉✉) १३:५६, ३० अप्रैल २०१४ (UTC)
Start a discussion about राष्ट्रियपक्षी
विकिपीडिया की सामग्री को यथासम्भव रूप से सर्वश्रेष्ठ बनाने के लिए लोगों द्वारा जहाँ पर चर्चा की जाती है उन्हें वार्ता पृष्ठ कहा जाता है। राष्ट्रियपक्षी में सुधार कैसे करें, इसपर अन्यों के साथ चर्चा आरम्भ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।