सम्भाषणम्:राष्ट्रियपक्षी

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Shubhaजी एतत् तु अयोग्यं, विकि-नियमविरुद्धं च । भवती सर्वदा मां नियमविषये वदन्ती भवति । अहं भवत्या उक्तनियमानुसारं कार्यं कर्तुं सर्वदा प्रयासं करोमि । परन्तु भवती स्वयमेव नियमान् उल्लङ्घति चेत् मया किं वक्तव्यम् ?

एकस्मिन् पृष्ठे यदि अयोग्यम् अस्ति, तर्हि सम्भाषणमाध्यमेन अन्ययोजकानां परामर्शः ज्ञातव्यः, ततः कार्यं कर्तव्यम् इति विकि-नियमः । तथात्र भवती नाकरोत् । भवतु । परन्तु भवत्या एव पूर्वं मार्गदर्शनं कृतम् आसीत् यत्, वर्गादि सर्वं आङ्ग्लविकि-अनुसारं मृत्युञ्जयकर कुर्वन् अस्ति । अतः तस्य कार्यं समीचीनमेव स्यात् । अतः तथैव कार्यं करणीयम् इति । अधुना अहं तथा कुर्वन् अस्मि तथापि भवती कृतं कार्यं नष्टं करोति ।

आङ्गलविकि-मध्ये https://en.wikipedia.org/wiki/National_symbols_of_India पृष्ठे https://en.wikipedia.org/wiki/National_bird इति पृष्ठे मया दृष्टम् । तदनुसारम् अहम् एतत् पृष्ठं निर्मितवान् । अहम् अपश्यं यत् भवती मया निर्मितानाम् अनेकानां पृष्ठानाम् अयोग्यरीत्या चाल्यातम्, अपाकरणं वा अकरोत् । प्रबन्धः योजकानां साहाय्यं करोति, तेषां मार्गदर्शनं करोति, परामर्शं स्वीकृत्य कार्यं करोति इति विकि-नियमानुसारम् । परन्तु अत्र मम अनुपस्थितौ नष्टात्मकं कार्यम् एवाहं पश्यामि । अकारणं कार्यं करणापेक्षया वकि-सम्बद्धानि टेकनिकल-कार्याणि वकि-लाभाय भवेत् इति मे मतम् ।

पुरा मया आचरितानां दोषानां कृते अहं बहुवारं क्षमायचानाम् अकरवम् । परन्तु भवती पुर्वाग्रहं मनसि निधाय सर्वदा मम दोषान् एव पश्यति । अहं बहुवारं प्रयासम् अकरवम् यत्, मिलित्वा कार्यं कुर्मः इति । अतः बहुवारं मार्गदर्शनम् अपि स्वीकृतम् । परन्तु गुजरात-केन्द्रं तु स्वतन्त्रं केन्द्रम् इति उक्त्वा यद् दलस्य विघटनं कृतं भवत्या, तेन प्रकल्पस्य कार्यमेव विलम्बेन भवति । अत्र यद् कार्यं पञ्चघण्टायां भवति, तत् ज्ञातारः भवन्तः पञ्चनिमेषेषु समाप्तं कर्तुं शक्नुवन्ति इति विचिन्त्य एव अहं मार्गदर्शनम् इच्छामि स्म । परन्तु अत्रापि मम प्रश्नः नास्ति । कारणं तस्य कृते यद् कारणं दत्तं, तत् व्यावहारिकदृष्ट्या (सङ्गटनदृष्ट्या अयोग्यमेव) योग्यम् अस्ति । न जाने अस्य किं परिणामं भविष्यति ? परन्तु अस्य पृष्ठे मम भावः अस्ति यत्, मिलित्वा कार्यं भवेत् (सर्वसम्मत्या) । NehalDaveND (✉✉) १३:५६, ३० अप्रैल २०१४ (UTC)