मञ्जुल भार्गव
मञ्जुल भार्गव | |
---|---|
सञ्चिका:ManjulBhargava.jpeg | |
जननम् |
हेमिल्टन्, ओण्टेरियो | ८, १९७४
देशीयता | केनडादेशीयः, अमेरिकादेशीयः |
कार्यक्षेत्राणि | गणितम् |
संस्थाः |
प्रिन्स्टन्-विश्वविद्यालयः लीडन्-विश्वविद्यालयः |
मातृसंस्थाः |
हार्वर्ड्-विश्वविद्यालयः प्रिन्स्टन्-विश्वविद्यालयः |
संशोधनमार्गदर्शी | आण्ड्रूव् वैल्स् |
शोधच्छात्राः |
मैकेल् वोल्पटो मेलेन् वुड् वे हो अरुल् शङ्कर |
विषयेषु प्रसिद्धः |
गास् काम्पोसिशन् नियमाः १५, २९० प्रमेयाः फेक्टोरियल् नियोज्यम् अण्डाकारवक्रतानां स्थानानि |
प्रमुखाः प्रशस्तयः |
फील्ड्स्-पदकम् (२०१४) इन्फोसिस्-प्रशस्तिः (२०१२) फर्मेट्-प्रशस्तिः (२०११) कोल्-प्रशस्तिः (२००८) क्ले-संशोधनप्रशस्तिः (२००५) शास्त्र रामानुजन् प्रशस्तिः (२००५) हस्से प्रशस्तिः (२००३) मार्गन् प्रशस्तिः (१९९६) हूप्स् प्रशस्तिः (१९९६) |
मञ्जुल भार्गवः(जननम् आगस्ट् ८, १९७४) [१]) कश्चन भारतीयः केनडीय-अमेरिकीयः गणितज्ञः । अयम् अमेरिकीये प्रिन्स्टन्-विश्वविद्यालये गणितप्राध्यापकः अस्ति । अङ्कप्रमेयविषये तेन कृतं योगदानम् अत्यन्तं प्रसिद्धं महत्त्वपूर्णञ्च विद्यते ।
भार्गवः २०१४ तमस्य वर्षस्य फील्ड्स्-पदकप्रशस्त्या सम्मानितः अस्ति । अङ्कानां रेखागणिते तेन विनूतनाः परिणामकारिण्यः पद्धतयः आविष्कृताः सन्ति । अण्डाकारिकवक्रतानां स्थाननिर्देशनं, लघुवक्रतानां गणनं च भार्गवः एतासां पद्धतीनाम् उपयोगेन साधितवान् यत् तन्निमित्तम् इयं प्रशस्तिः दीयमाना अस्ति इति अघोषयत् अन्ताराष्ट्रियः गणितकूटः ।[२] तदीया एर्डो-सङ्ख्या २ विद्यते । [३]
शिक्षणं वृत्तिजीवञ्च
[सम्पादयतु]भार्गवः केनडादेशस्य ओण्टरियोराज्यस्य हेमिल्टन्-नगरे जातः । तस्य बाल्यदिनानि तु न्यूयार्क्-राज्यस्य लाङ्ग्-ऐलेण्ड्-प्रदेशे यापितानि ।[४] सः स्वीये चतुर्दशे एव वयसि प्रौडशालीयगणित-सङ्गणकशिक्षणं समापयत् । [५] तेन प्लैनेड्ज्-प्रौढशालायां शिक्षणं प्राप्तम् । १९९६ तमे वर्षे तेन हार्वर्ड्-विश्वविद्यालयतः बि ए पदवी प्राप्ता । पदवीपूर्वसंशोधनकार्याय तेन १९९६ तमे वर्षे मार्गन्-प्रशस्तिः प्राप्ता । आण्ड्रिव् वैल्स् नामकस्य मार्गदर्शकस्य आधीन्ये तेन प्रिन्स्टन्-विश्वविद्यालये संशोधनं कृतम् । सः २००१-०२ तमयोः वर्षयोः सः इन्स्टिट्यूट् आफ् अड्वान्स्ड् स्टडीस् इत्यत्रः अतिथिप्राध्यापकरूपेण कार्यम् अकरोत् ।[६] पदवीशिक्षणस्य समाप्तेः वर्षद्वयाभ्यन्तरे एव प्रिन्स्टन्-विश्वविद्यालये अयं पूर्णावधिप्राध्यापकरूपेण नियुक्तः जातः यत् तदस्ति विशेषतया उल्लेखार्हः । [७]
भार्गवः उत्कृष्टः तबलावादकः अस्ति यः प्रसिद्धस्य तबलावादकस्य झाकिर् हुसेनस्य शिष्येषु अन्यतमः ।[८] अयं स्वस्य मातामहस्य पुरुषोत्तम लाल भार्गवस्य समीपे संस्कृतमपि अधीतवान् । पितामहः प्रसिद्धः संस्कृतज्ञः प्राचीनभारतेतिहासज्ञश्च ।[९]
योगदानानि
[सम्पादयतु]तदीयः विद्यावारिधेः संशोधनद्वारा गासस्य काम्पोसिशन्-नियमानाम् अन्वयः विभिन्नेषु सन्दर्भेषु कृतः । तत्रत्य प्रमुखः फलितांशः अङ्कक्षेत्रे उपयुक्तमस्ति । बीजगणितीये अङ्कक्षेत्रे , अण्डाकारवक्रतानाम् अङ्कगणितीयप्रमेयविषये च तस्य विशेषप्रयोजनं दर्शितमस्ति । [१०] गणितक्षेत्रे तदीयानि कानिचन विशिष्टानि योगदानानि -
- १४ नवीनाः गास्-शैलीकाः काम्पोसिशन्-नियमाः ।
- १५ प्रमेयस्य प्रमाणानि
- २९० प्रमेयस्य प्रमाणानि (जोनथन् हङ्के - इत्यनेन सह)
चितानि प्रकाशनानि
[सम्पादयतु]- Bhargava, Manjul (2000). "The Factorial Function and Generalizations". The American Mathematical Monthly 107 (9): 783–799. ISSN 0002-9890. doi:10.2307/2695734.
- Bhargava, Manjul (2004). "Higher Composition Laws I: A New View on Gauss Composition, and Quadratic Generalizations". The Annals of Mathematics 159: 217–250. doi:10.4007/annals.2004.159.217.
- Bhargava, Manjul (2004). "Higher Composition Laws II: On Cubic Analogues of Gauss Composition". The Annals of Mathematics 159 (2): 865–886. doi:10.4007/annals.2004.159.865.
- Bhargava, Manjul (2004). "Higher Composition Laws III: The Parametrization of Quartic Rings". The Annals of Mathematics 159 (3): 1329–1360. doi:10.4007/annals.2004.159.1329.
- Bhargava, Manjul (2005). "The density of discriminants of quartic rings and fields". The Annals of Mathematics 162: 1031–1063. doi:10.4007/annals.2005.162.1031.
- Bhargava, Manjul (2008). "Higher composition laws IV: The parametrization of quintic rings". The Annals of Mathematics 167: 53–94. doi:10.4007/annals.2008.167.53.
- Bhargava, Manjul (2010). "The density of discriminants of quintic rings and fields". The Annals of Mathematics 172: 1559–1591. doi:10.4007/annals.2010.172.1559.
- Bhargava, Manjul; Shankar, Arul (2010). Binary quartic forms having bounded invariants, and the boundedness of the average rank of elliptic curves. arXiv:1006.1002.
- Bhargava, Manjul; Shankar, Arul (2010). Ternary cubic forms having bounded invariants, and the existence of a positive proportion of elliptic curves having rank 0. arXiv:1007.0052.
- Bhargava, Manjul; Satriano, Matthew (2010). On a notion of "Galois closure" for extensions of rings. arXiv:1006.2562v1.
टिप्पाणी
[सम्पादयतु]- ↑ Gallian, Joseph A. (2009). Contemporary Abstract Algebra. Belmont, CA: Cengage Learning. p. 571. ISBN 978-0-547-16509-7.
- ↑ "List of all 2014 awardees with brief citations" (Press release). International Mathematical Union. Archived from the original on November 11, 2017. आह्रियत August 12, 2014.
- ↑ AMS Collaboration Distance http://www.ams.org/mathscinet/collaborationDistance.html
- ↑ "Fareed Zakaria is India Abroad Person of the Year - Rediff.com India News". News.rediff.com. 2009-03-21. आह्रियत 2014-08-14.
- ↑ "India Abroad - Archives 2003-2008". Indiaabroad-digital.com. 2009-12-30. आह्रियत 2014-08-14.
- ↑ "Institute for Advanced Study: A Community of Scholars". Ias.edu. आह्रियत 2014-08-14.
- ↑ Vakil, Ravi (2008). A Mathematical Mosaic. Burlington, ON: Brendan Kelly Publishing. p. 159. ISBN 978-1-895997-04-0.
- ↑ "Bhargava strikes balance among many interests". Princeton.edu. 2003-12-08. आह्रियत 2014-08-14.
- ↑ "Fields Medal Winner Bhargava". Business Insider. आह्रियत 2014-08-14.
- ↑ "Fellows and Scholars | Clay Mathematics Institute". Claymath.org. Archived from the original on 2014-08-17. आह्रियत 2014-08-14.