सामग्री पर जाएँ

आनन्दमयाधिकरणचन्द्रिकावैशिष्ट्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


आनन्दमयाधिकरणचन्द्रिकायां तत्त्वप्रकाशिकायां अस्पष्टाः अनेके विषयाः स्फुटतया निरुपिताः । अपूर्वाश्च विषयाः असाधारणा च विमर्शप्रणाली समुल्लसति । निदर्शनतया द्वित्रा विषयाः अनूद्यन्ते ।

शब्दश्चतुर्विधाः

[सम्पादयतु]
  1. तत्र प्रसिध्दाः - नारायणादयः
  2. अन्यत्र प्रसिओध्दाः - गायत्री-आकाशादयः
  3. अन्यत्रैव प्रसिध्दाः - दुःखिबध्दावरादयः
  4. उभयत्र प्रसिध्दाः - इन्द्राग्न्यादयः

श्रुत्यादितो लोकतो वापीतरेषु प्रसिध्दता ।
बलवत्श्रुतिलिङ्गाद्यैः अन्येष्वेव प्रसिध्दता ॥
यद्वा -
येषां प्रसिध्दिरन्यत्र केवलैव विरोधिनी।
समन्वयस्य उभयत्र प्रसिध्दास्ते हि कीर्तिताः ॥
येषां ब्रह्मण्यप्रसिध्दिः प्रसिध्दिश्चान्यवस्तुषु ।
विरोधिन्यौ हि तेऽन्यत्र प्रसिध्दाः कथिता इह ॥
येषामुक्तद्वयं ब्रह्मपरत्वस्यात्यशक्यता ।
इति तिस्रो विरोधिन्यः तेऽन्यत्रैव प्रसिध्दकाः ॥ इति ।

आनन्दमयः अभ्यासात् इत्यत्र अभ्यासशब्देन ब्रह्मशब्दाभ्यासो विवक्षित इति भाष्यटीकयोः स्फुटोऽर्थः । आनन्दमविज्ञानमयौ विहाय अन्यत्र ब्रह्मशब्दाभ्यासाभावेन कथं ब्रह्मशब्दाभ्यासात् इति हेतुः द्वैतनये सङ्गच्छत इति शङ्कात्र सहजैव । अत्र च अनेकधा समाधानं श्रीमद्य्असतीर्थश्रीमच्चरणैः चन्द्रिकायां निरुक्तम् ।

  1. अभ्यासात् इत्यस्य ब्रह्मशब्दाभ्यासात् इत्यर्थः । आनन्दमय-विज्ञानमययोः ब्रह्मशब्दाभ्यासोऽस्ति । अन्यत्र ब्रह्मशब्दश्रवणमात्रम् । अत एव टीकायां ‘अन्यत्र ब्रह्मशब्दश्रवणात्’ इत्येवोक्तम् । तथा च आनन्दमयविज्ञानमययोः ब्रह्मशब्दाभ्यासात् अन्यत्र च ब्रह्मशब्दश्रवणात् ब्रह्मत्वं सिध्दत्येव ।
  2. सुधायां तु येऽन्नं ब्रह्मेत्यादिरुपादभ्यासात्तैत्तिरीयके इत्यनुव्याख्यानुसारेण मुख्याभ्यासाभावेऽपि असकृदुक्ति मात्रमस्त्येवेत्युक्तम् । एवञ्च श्रीमन्न्यायसुधानुरोधेन अभ्यासशब्दमुख्यार्थाभावेऽपि सर्वत्र गौणाभ्याससद्भावेन सूत्रोक्ताभ्यासस्य अस्मन्मते सङ्गतत्वात् ।
  3. ब्रह्मशब्दाभ्यासात् इत्यस्य ब्रह्मवाचकशब्दाभ्यासात् इत्यर्थः । तथा च आत्मान्तरादिशब्दाभ्यासात् मुख्य एवाभ्यासः विद्यते इति वक्तुं शक्यते ।
  4. यद्वा अन्नं ब्रह्मेति व्यजानात् इत्युत्तरानुवाकेप्यन्नमयादौ ब्रह्मशब्दसद्भावादभ्यासः मुख्य एवोपपद्यते ।

आनन्दमयाधिकरणचन्द्रिकायाम् अद्वैतसिध्दान्तानुरोधेन कृतः द्वैतविमर्शः, अद्वैतनिरासः निपुणतरमुपपादितः । अत्र सर्वप्रथमतया अद्वैताशयः निरुप्यते –

१ आनन्दमयतदवयवयपुच्छयोर्ब्रह्मत्वाऽयोगादेकस्य ब्रह्मता वाच्या । तत्रानन्दमयस्य ब्रह्मत्वे विकारार्थस्य मयटः प्रायपाठत्यागः ।
मुख्यत्रितयलङ्घनञ्च भवति । तथाहि –
प्राचुर्यस्यापि प्रतियोग्यल्पत्वापेक्षत्वात् ब्रह्मणि च दुः खलेशस्याप्यभावात् मयटः स्वार्थत्यागः ।
२ पुच्छवाक्यगतब्रह्मशब्दस्य गौणार्थत्वम् । निर्विकारे ब्रह्मणि मुख्यस्य अब्रह्मणि पुच्छे मुख्यार्थत्वम् ।
३ श्रुतौ च सैषानन्दस्येत्यादिना आनन्दस्यैवाभ्यासो न त्वानन्दमयस्येति तेन मयडार्थो लक्ष्यते । सैषानन्दस्य मीमांसा इत्यादौ अभ्यस्यमानानन्दप्रातिपदिकेन मयडर्यो लक्ष्यत इति चत्वारो दोषाः । पुच्छस्य ब्रह्मत्वे त्ववयवप्रायपाठबाधमात्रम् । तदुक्तं भामत्याम् –
प्रायपाठपरित्यागो मुख्यत्रितयलङ्घनम् ।
पूर्वस्मिन्, उत्तरे पक्षे प्रायपाठस्य बाधनम् ॥ इति ।
४. किञ्च प्रियाद्यवयवयोगेन आनन्दमयस्सविशेषः । ब्रह्म तु निर्विशेषम् । अपि चानन्दमयः प्रियादिभेदात् प्रतिशरीरं भिन्नः , ब्रह्म त्वभिन्नम् । तस्मादानन्दमयो न ब्रह्म किन्तु पञ्चापि कोशाः ।
५. भृगुवल्यां मयटः प्रियशिरस्त्वादेश्चाश्रवणात् भिन्नप्रकरणत्वम् । सूत्राणां वेदविरोधे गुणे त्वन्याय्यकल्पना इति अर्थान्तरता ।
अत्र अद्वैतसिध्दान्तोक्ताः आक्षेपाः चन्द्रिकायां परिहृताः उक्ताश्च सिध्दान्तसमर्थकाः युक्तयः –
एकत्रापि न मुख्यार्थलङ्घनं मामके मते ।
सर्वत्रापि च मुख्यार्थलङ्घनं तावके मते ॥
१. अवयवावयविनोः पूर्णत्वेन ब्रह्मशब्दस्तावन्मुख्यः पूर्णत्वं हि ब्रह्मशब्दार्थः । धर्मान्तरेष्वदृष्टमपि जाति –समवायादौ धर्मितोऽधिकदेशत्वम् । परिच्छिन्नाज्ञानवृते निरंशे चैतन्ये, अपरिच्छिन्नत्वं, यथा वानन्दान्तरेष्वदृष्टमपि ब्रह्मानन्दस्य पूर्णत्वादिकं, तथान्यत्रादृष्टमपि पूर्णत्वं विचित्रशक्तियुक्तावयवेऽस्तु । तदुक्तम्-
ब्रह्मताऽवयवेऽपि स्यात् तथावयविनि स्वतः ।
यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला ॥
उद्वबर्हात्मनः केशौ सितकृष्णौ महामुने ।
उवाच च सुरानेतौ मत्केशौ वसुधातले ।
अवतीर्य भुवौ भारक्लेशहानिं करिष्यतः ॥ इति ।
२. नानन्दमय एव मयट प्राचुर्यार्थः किन्तु सर्वत्राऽपि । अतः न प्रायपाठविरोधः ।अल्पदुः खप्राप्तिशङ्का तु प्रकाशमयः सविता इत्यादाविव परिहरणीया ।
३. न आनन्दशब्दस्य ‘सैषानन्दस्य इत्यादौ प्राचुर्यलक्षकत्वम् । ‘आनन्दं ब्रह्मणः’ ‘यदेष आकाश’ इत्यादौ तु प्रकरणवशादेव तादृशार्थसिध्दिः न त्वानन्दशब्दस्य प्राचुर्यलक्षकत्वेन ।
४. न च ‘यतो वाचो निवर्तन्ते’ इत्यादयः निर्विशेषब्रह्माभिधायकाः । किन्तु अवाङ्मनसगोचरानन्तविशेषाभिधायकाः ।
५. किञ्चान्नमयादिनामब्रह्मत्वे ब्रह्मजिज्ञासोस्तदुपदेशानुपयोगः । द्वारमपि द्वारत्वेनैवोपदेष्टव्यं, न त्वात्मतया । न च ‘अन्नं ब्रह्म’ इत्यनुक्त्वा ‘आनन्दो ब्रह्म’ इति वक्तुमशक्यं, येन द्वारत्वं स्यात् । न च ‘सत्यं ज्ञानम्’ इत्यनेन स्वरुपलक्षणेन ब्रह्मेपदिश्य पुनस्तस्य देहादिरुपताभ्रान्तिमुत्पाद्य पुनरपि पुच्छवाक्येन तदुपदेशोऽर्थवान् ।
६. किञ्च भृगुर्वरुणोपदिष्टानां द्वारत्वं न वेत्ति चेत् विरोचनस्येव पुनरुपसत्ययोगः । वेत्ति चेत् नान्नं ब्रह्मेति व्यजानात् नान्नाध्दयेव इत्यादि श्रूयेत् । तस्मादन्नादयो न कोशाः ।
७. शुध्दब्रह्मपरमिति यदुक्तं तन्न । ‘सोऽकामयत’ ‘भीषास्मात्’ इत्यादिश्रुतौ कामादिगुणविशिष्टस्यैवास्मिन् प्रकरणे उक्तेः । किञ्च निर्विशेषज्ञानस्य सविशेषज्ञानाधीनत्वादादौ निर्विशेषोक्तिरयुक्ता ।
अत्र न केवलम् अद्वैतनयरीत्या अधिकरणरचनाक्रमः अपाकृतः अपि तु रामानुजमतानुरोधेनाऽपि अधिकरणरचनक्रमनिरासः सुष्ठूपवर्णितः । अत्र रामानुजसिध्दान्तरीत्या अधिकरणसारः एवं विज्ञेयः –
‘तस्यैष एव शारीर आत्मा’ इति शारीरत्वेन जीव एवानन्दमय इति प्राप्ते, निरतिशयानन्दविशिष्टस्योत्तरत्राभिधानात् न जीवः । किन्तु आननमयो ब्रह्म । मयट् प्राचुर्यार्थः । विज्ञानमयो जीवः तत्र मयट् सम्बन्धार्थः । प्राणादयः कोशाः । प्राणमय इत्यत्र मयट् विकारार्थः । प्राणमनोमययोः स्वार्थिकः । इत्यादि ।
तदेतदसत् ।
१. पुच्छाद्यनुपपत्तीनामपरिहारात् ।
२. ‘विज्ञानं ब्रह्म’ ‘विज्ञानं देवाः सर्वे’ इत्याद्युक्तसर्वदेवोपास्यत्व –मुक्तप्राप्यत्वादीनां जीवेऽनुपपत्त्या न जीवो विज्ञानमयः ।
३. मयटः त्रैविध्यकल्पनमेकप्रकरणेऽतीवासमञ्जसम् ।
एवं रामानुजमतं निराकृत्य द्वैतसिध्दान्तानुरोधेन आनन्दमयाधिकरणे अनुसन्धेयः प्रमेयविशेषः चन्द्रिकायाम् एवं प्रतिपादितः । अत्रैते सङ्ग्रहश्लोकाः –
ब्रह्मशब्दात् समस्तात्तृत्वादिलिङ्गच्च वाक्यतः । पूर्वोत्तरस्मात् मन्त्रस्थ ब्रह्मप्रकरणदापि ॥
भृगुवल्लीसमाख्यानात् मुक्तगीतावसानकात् । स्थानप्रमाणतश्चैव पञ्चानां ब्रह्मता स्थिता ॥
ब्रह्मप्रश्नोत्तरात् ब्रह्मलक्षणात् ब्रह्मशब्दतः । विज्ञातत्वाच्च तपसा मुक्तगम्यत्वतस्तथा ॥
वाधूलीयसमाख्यानात् अनुव्याख्यानिरुपितात् । भृगुवल्ल्युदितस्यान्नप्राणादेर्ब्रह्मता स्थिता ॥
१. ब्रह्मशब्दात् –‘येऽन्नं ब्रह्मोपासते’ ‘ये प्राणं ब्रह्मोपासते’ इति पञ्चकेऽपि ब्रह्मशब्दश्रवणान्न कोशाः ।
२. समस्तात्तृत्वादिलिङ्गाच्च. सर्वात्तृत्व – सर्वचेष्टकत्वादिलिङ्गतः ।
३. वाक्यतः –अन्नमयादिमहिमाप्रतिपादकानि ‘अन्नाद्वै प्रजाः प्रजायन्ते’ ‘प्राणं देवा अनुप्राणन्ति’ इत्यादीनि वाक्यानि जागृतानि ।
४. पूर्वोत्तरस्मात् मन्त्रस्थब्रह्मप्रकरणादपि –ब्रह्मस्वरुपनिरुपणप्रकरणत्वात् तथैव वाक्यार्थावगतेश्च ।
५. भृगुवल्लीसमाख्यानात् मुक्तगीतावसानकात् –ब्रह्मभृगुवल्योरेकविषयकत्वात् अन्नमयादीनां ब्रह्मत्वप्रतिपादकभृगुवल्लीसमाख्यानात् ।
६. स्थानप्रमाणतश्चैव पञ्चानां ब्रह्मता स्थिता- भृगुः पञ्चात्मकं पूर्णम् अन्नादिमयमच्युतम् ।
       मुक्तगीतावसानैस्तु स्तुतस्तेन जनार्दनः ।
       सुप्रीतः प्रददौ ‘ज्ञानम्’ ……….. इत्यादि स्थानप्रमाणतः ।
१. ब्रह्मप्रश्नोत्तरात् –‘भृगुर्वै वारुणिः’ ‘अन्नं प्राणं चक्षुः’ इत्यादौ ब्रह्मप्रश्नोत्तरसद्भावात् नात्र कोशजिज्ञासा कृता ।
२. ब्रह्मलक्षणात् –‘यतो वा इमानि भूतानि’ इत्यादि लक्षणात् ।
३. ब्रह्मशब्दतः –‘अन्नं ब्रह्म’ ‘प्राणो ब्रह्म’ ‘मनो ब्रह्म’ इत्यादि ब्रह्मशब्दतः ।
४. विज्ञातत्वाच्च तपसा –‘स तपोऽतप्यत’ अन्नं ब्रह्मेति व्यजानात्’ ‘प्राणो ब्रह्मेति व्यजानात्’ इत्यादिना तपसा ब्रह्मविज्ञातत्वात् अन्नादिशब्दाः ब्रह्मवाचका इति स्फुटं विज्ञायते ।
५. मुक्तगम्यत्वतस्तथा – ‘ स य एवंविदस्माल्लोकात् प्रेत्य’ ‘एतमानन्दमयमात्मानमुपसङ्क्रम्य’ इत्यादौ मुक्ताश्रयत्वोक्तेः नात्र कोशजिज्ञासा ।
६. वाधूलीयसमाख्यानात् अनुव्याखानिरुपितात् ।
भृगुवल्युदितस्यान्नप्राणादेर्ब्रह्मता स्थिता ॥
एवं तात्पर्यचन्द्रिकायां व्यासतीर्थश्रीमच्चरणैः परोक्ते दूष्यांशाः हनुमद्भाष्ये च गुणविशेषाः सुन्दरतयोपवर्णिताः ।

सम्बद्धाः लेखाः

[सम्पादयतु]

टिप्पणी

[सम्पादयतु]

F.N. page 1 01.ब्रह्मसूत्रभाष्यम् (तत्त्वप्रकाशिकाचन्द्रिकासहितम् ) ORI edition, 1985 p. 160 Page -2 01ब्रह्मसूत्रशाङ्करभाष्यभामति, p. 193 Venkateshwara Press, Mumbai, 1904 02. ब्रह्मसूत्रभाष्यम् (तत्त्वप्रकाशिकाचन्द्रिकासहितम्) ORI edition, 1985 p. 239 Page 3 01. ब्रह्मसूत्रानुव्याख्यानसुधा Page-4 १. ब्रह्मसूत्रभाष्यम् (तत्त्वप्रकाशिकाचन्द्रिकासहितम्) ORI edition, 1985 p. 274-279