सामग्री पर जाएँ

विभक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


विभक्तीनां प्रवृत्तौ कारकं प्राधान्यम् आवहति । कारकसंज्ञां पुरस्कृत्य या विभक्तिः प्रवर्तते सा कारकविभक्तिः इति उच्यते । यथा – ग्रामं गच्छति । अत्र द्वितीया कर्मकारकसंज्ञां पुरस्कृत्य प्रवृत्ता । अतः एषा कारकविभक्तिः ।

यत्र कारकत्वस्य न प्रसक्तिः तत्र परिगणितानां केषाञ्चन पदानाम् अर्थेन योगोऽपि विभक्तेः प्रवृत्तौ निमित्तं भवति । यथा – हरिं विना सुखं नास्ति । अत्र ‘विना’ इत्यस्य अर्थेन युक्तः हरिः । विना इत्यस्य अर्थेन योगादेव हरिशाब्दात् द्वितीया प्रवृत्ता । अतः एषा उपपदविभक्तिः इति उच्यते । प्रथमायाः प्रवृत्तौ निमित्तं प्रातिपदिकार्थः सम्बोधनञ्च । यथा – उच्चैः गृहम् । हे राम । स्व स्वामिभावादिसम्बन्धोऽपि विभक्तिप्रवृत्तौ निमित्तम् । यथा – राज्ञः पुरुषः । अत्र राजपदात् षष्ठी श्रूयते । सा षष्ठी स्वस्वामिभावसम्बन्धं पुरस्कृत्य प्रवृत्ता ।

कारकविभक्तयः

[सम्पादयतु]
  1. प्रथमाविभक्तिः
    1. संबोधनप्रथमा
  2. द्वितीयाविभक्तिः
  3. तृतीयाविभक्तिः
  4. चतुर्थीविभक्तिः
  5. पञ्चमीविभक्तिः
  6. षष्ठीविभक्तिः
  7. सप्तमीविभक्तिः

कृद्योगे कर्तरि कर्मणि च प्रवर्तमाना (न तु सम्बन्धं पुरस्कृत्य प्रवर्तमाना) षष्ठी अपि (श्लोकस्य पठनम् इत्यादौ) कारकविभक्तिः एव । तृतीयाविभक्तिः कर्तरि, करणे च प्रवर्तते इति विशेषः । उपपदविभक्तयः अपि ताः एव द्वितीया, तृतीया, चतुर्थी, पञ्चमी, सप्तमी चेति । यथा –कृष्णम् अभितः गावः । अक्ष्णा काणः । सर्वेभ्यः स्वस्ति । कृष्णात् अन्यः अयम् । मातरि साधुः इति ॥

कर्मप्रवचनीयः इति काचित् संज्ञा । सा संज्ञापि द्वितीयायाः पञ्चम्याः सप्तम्याः च प्रवृत्तौ निमित्तं भवति । यथा – वृक्षं प्रति विद्योतते विद्युत् । आ हिमालयात् । अधि भुवि रामः इति । वस्तुतस्तु उपपदवि भक्तौ एव अस्य अन्तर्भावः ॥

पाणिनेः अयं क्रमः । आदौ अपादानादिकारकसंज्ञां विधत्ते ‘ध्रुवमपायेऽपादानम् – १.४.२४’ इत्यादिना सूत्रेण प्रथमाध्याये चतुर्थपादे । ततो विभक्तिं विधत्ते ‘कर्मणि द्वितीया’ इत्यादिना सूत्रेण द्वितीयाध्याये तृतीयपादे । तत्रैव उपपदविभक्तिं षष्ठी विभक्तिञ्च विधत्ते । प्रथमाविभक्तिं प्रातिपदिकार्थं पुरस्कृत्य विधत्ते, याम् एतां प्रथमां ‘षष्ठी शेषे -२.३.५०’ इति सूत्रात्प्राक् प्राह । एवञ्च ‘आदौ कारकं निश्चेतव्यम् । ततो विभक्तिः विधेया’ इत्येषः क्रमः कारकविभक्तौ इति ज्ञेयम् ॥

प्रथमाविभक्तिः

[सम्पादयतु]

प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – २.३.४६ नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे, लिङ्गमात्राद्याधिक्ये, सड्ख्यामात्रे च प्रथमा स्यात् । प्रवृत्तिनिमित्तं व्यक्तिश्च प्रातिपदिकार्थः । उदाहरणम् -वृक्ष इति प्रातिपदिकस्य वृक्षत्वविशिष्टः वृक्षः इत्यर्थः । अत्र वृक्षत्वं प्रवृत्तिनिमित्तम् । वृक्षः व्यक्तिः । एतादृशे प्रातिपदिकार्थे प्रथमा स्यात् ॥

  • गौः गोष्ठम् आगच्छति ।

अत्र गो इति प्रातिपदिकस्य अर्थः गोत्वविशिष्टः गौः इति । अत्र गोशब्दात् प्रथमा ।

  • छात्रेण श्लोकः पठ्यते ।

अत्र श्लोक इति प्रातिपदिकस्य अर्थः श्लोकत्वविशिष्टश्लोकः इति । अतः श्लोकशब्दात् प्रथमा ॥

संबोधनप्रथमा

[सम्पादयतु]

संबोधनम् अर्धविभक्तिरस्ति। तस्य रूपाणि लघुर्भिन्नेन प्रथमाविभक्तिरिव। तस्य प्रयोगं आह्वाने एव।

  • रे रे राम! इहागच्छतु!

द्वितीयाविभक्तिः

[सम्पादयतु]

कारकद्वितीया, उपपदद्वितीया, चेति द्वितीया द्विविधा । कर्मसंज्ञां पुरस्कृत्य प्रवर्तमाना द्वितीया कारकद्वितीया । परिगणितपदानां योगमात्रेण् प्रवर्तमाना द्वितीया उपपदद्वितीया । कर्मप्रवचनीयसंज्ञां पुरस्कृत्य प्रवर्तमाना द्वितीया कर्मप्रवचनीयद्वितीया । एषा उपपदद्वितीयायाम् एव अन्तर्भवति ॥

कर्मणि द्वितीया -२.३.२ अनुक्ते कर्मणि द्वितीया स्यात् । द्वितीयाविभक्ति विधायकं सूत्रमिदम् । कर्मणि द्वितीया भवतीति अनेन सूत्रेण उच्यते । किं तर्हि कर्म ? इत्याकांक्षायां अष्टभिः सूत्रैः कैश्चित् वार्तिकैश्च कर्मसंज्ञा अभिधीयते । एतैः सूत्रैः इदं कर्मेति निर्णये जाते प्रकृतसूत्रेणैव द्वितीया प्रवर्तनीया । अतः कर्म संज्ञा –विधायकानि सूत्राणि बहूनि, कर्मसंज्ञाम् अवलम्बय् द्वितीयाविधायकं तु एकमेव सूत्रम् । (उपपदद्वितीयाविधायकानि सूत्राणि वार्तिकानि च अन्यानि सन्ति) अतः येन येन सूत्रेण कर्मसंज्ञा विधीयते तत्र तत्र कर्मणि द्वितीयेति एकेनैव सूत्रेण द्वितीया प्रवर्तते इति ज्ञेयम् । सर्वासु कारकविभक्तिषु एषैव सरणिः आदृता पाणिनिना इति स्मरणीयम् ॥

  • पाचकः तण्डुलान् पचति ।

कर्तुरीप्सिततमं कर्म -१.४.२९ कर्तुः क्रियया आप्तुम् इष्टतमं कारकं कर्मसंज्ञं स्यात् । पाचकः तण्डुलान् पचति इत्यत्र पाचकः कर्ता । तस्य पाकक्रियया आप्तुम् इष्टतमः तण्डुलः कर्म । अतः कर्मभूतात् तण्डुलात् कर्मणि द्वितीयेति द्वितीया भवति ॥

  • पान्थः ग्रामं गच्छन् तृणं स्पृशति । विषं भुङ्के ।

तथायुक्तञ्चानीप्सितम् – १.४.५० ईप्सिततमवात्क्रियया युक्तम् अनीप्सितमपि कारकं कर्मसंज्ञं स्यात् ॥

तृतीयाविभक्तिः

[सम्पादयतु]

कारकतृतीया उपपदतृतीया इति तृतीया द्विविधा । कर्तृकारके करणकारके च तृतीयाविधानात् कर्तृतृतीया करणतृतीया चेति कारकतृतीया द्विविधा । एवञ्च कर्तृकारकतृतीया, करणकारकतृतीया, उपपदतृतीया चेति तृतीया अपि त्रिविधा भवति ।

यः कर्ता, यच्च करणं, तस्मात् कर्तृवाचकात् करणवाचकात् च तृतीया भवति । अनुक्ते कर्तरि करणे च तृतीयाविधायकं सूत्रम् एकम् एव – कर्तृकरणयोस्तृतीया २.३.१८(अनभिहिते कर्तरि करणे च तृतीया स्यात् ) इति । उपपदतृतीया विधायकसूत्राणि बहूनि सन्ति ।

कर्तरि

[सम्पादयतु]

अध्यापकेन विद्यालयः गम्यते । स्वतन्त्रः कर्ता -१.४.५४ क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् । स्वातन्त्र्यं नाम क्रियाश्रयत्वम् । एवञ्च क्रियाश्रयः कर्ता इति फलितोऽर्थः । अध्यापकेन विद्यालयः गम्यते । अत्र गम् धातोरर्थः संयोगरुपं फलं, तदनुकूलक्रिया च । गमनक्रियाश्रयः अध्यापकः । अतः अध्यापकः कर्ता । गम्यते इत्यत्र तेइति प्रत्ययस्य अर्थः कर्म, न तु कर्ता । अतः ते इति प्रत्ययेन कर्ता न उक्तः (अनभिहितः इत्यर्थः ) । तस्मात् कर्तृवाचकात् अध्यापकशब्दात् कर्तृकरणयोस्तृतीया – २.३.१८इति सूत्रेण तृतीया भवति । इदमवधेयम् –कर्मणिप्रयोगेषु (कर्मवाच्येषु) भावेप्रयोगेषु (भाववाच्येषु ) च कर्तृपदं तृतीयान्तम् एव भवति यथा – सूदेन तण्डुलः पच्यते । पुष्पेण विकस्यते । पच्यतेइत्यत्र तेइत्यस्य अर्थः कर्म, न तु कर्ता । विकस्यतेइत्यत्र तेइत्यस्य अर्थः भावः, न तु कर्ता । एवञ्च उभयत्रापि कर्ता न उक्तः (अनभिहितः)। कर्तुः अनभिहितत्वात् उभयत्रापि कर्तृकरणयोः तृतीयाइति तृतीया एव भवति ॥

रामः बाणेन रावणं हन्ति । साधकतमं करणम् -१.४.४२ क्रियासिध्दौ प्रकृष्टोपकारकं कारकं करणसंज्ञं स्यात् । रामः बाणेन रावणं हन्ति । अत्र हन्धातोर्थः – प्राणवियोगरुपं फलं, तदनुकूलव्यापारश्च । अत्र रामः कर्ता । प्राणवियोगरुपफलाश्रयत्वात् रावणः कर्म । प्राणवियोगरुपं फलं बाणप्रवेशसमनन्तरमेव भवतीति बाणः करणम् । तस्मात् करणवाचकात् कर्तृकरणयोः तृतीयाइति तृतीया भवति । ( षष्ठं (६) पृष्ठमपि पश्यन्तु ।) ३. अक्षैः दीव्यति (अक्षान् दीव्यति ) दिवः कर्म च -१.४.४३ दिवः साधकतमं कारकं कर्मसंज्ञं स्यात्, चात् करणसंज्ञम् । अक्षैर्दीव्यति । अक्षाणां करणसंज्ञायां कर्तृकरणयोस्तृतीयाइति तृतीया भवति । अक्षाणां कर्मसंज्ञायां तु कर्मणि द्वितीयाइति द्वितीया भवति ॥

चतुर्थीविभक्तिः

[सम्पादयतु]

कारकचतुर्थी उपपदचतुर्थी चेति चतुर्थी द्विविधा । यत् सम्प्रदानं भवति, तस्मात् सम्प्रदानात् चतुर्थी भवति । अनुक्ते सम्प्रदाने चतुर्थीविधायकं सूत्रम् एकम् एव चतुर्थी सम्प्रदाने – २.३.१३ इति । सम्प्रदानसंज्ञाविधायकानि सूत्राणि तु बहूनि सन्ति । उपपदचतुर्थीविधायकसूत्राणि अपि अनेकानि सन्ति ॥

पिता पुत्राय फलं ददाति । कर्मणा यमभिप्रैति स स्म्प्रदानम् – १.४.३२ दानस्य कर्मणा यम् अभिप्रैति स सम्प्रदानसंज्ञः स्यात् । पिता पुत्राय फलं ददाति । अत्र पिता कर्ता । फलं कर्म । कर्मणा सम्बन्धुं पुत्रम् अभिप्रैति । अतः पुत्रः सम्प्रदानम् । तस्मात् सम्प्रदानवाचकात् शब्दात् चतुर्थी सम्प्रदाने इति सूत्रेण चतुर्थी भवति । २. राजा युद्धाय संनह्यते । क्रियया यमभिप्रैति स सम्प्रदानम् (वा) अकर्मकक्रियोद्देश्यमपि सम्प्रदानसंज्ञं स्यादिति वार्तिकस्य अर्थः । राजा युद्धाय संनह्यते । अत्र सन्नहनमेव क्रिया । तस्याः क्रियायाः उद्देश्यं युद्धम् । अतो युध्दं सम्प्रदानं प्रकृतवार्तिकेन । तस्मात् सम्प्रदान भूतात् युद्धात् चतुर्थी सम्प्रदाने इति सूत्रेण चतुर्थी भवति ॥

पञ्चमीविभक्तिः

[सम्पादयतु]

कारकपञ्चमी उपपदपञ्चमी’ चेति पञ्चमी द्विविधा । यत् अपादानं भवति, तस्मात् अपादानात् पञ्चमी भवति । अपादाने पञ्चमीविधायकं सूत्रम् एकम् एव अपादाने पञ्चमी -२.३.१८ इति अपादानसंज्ञाविधायकसूत्राणि बहूनि सन्ति उपपदपञ्चमीविधायकानि सूत्राण्यपि सन्ति अनेकानि । कर्मप्रवचनीयसंज्ञां पुरस्कृत्य पञ्चमीविधायके द्वे सूत्रे स्तः ॥

कारकपञ्चमीविभक्तिः

[सम्पादयतु]

वृक्षात् पर्णं पतति । ध्रुवमपायेऽपादानम् -१.४.२४ विश्लेषे साध्ये अवधिभूतं कारकम्, अपादानं स्यात् । विभागाश्रयोऽपादानमिति फलितार्थः । वृक्षात् पर्णं पतति । अत्र पतधातोरर्थः अधोदेशसंयोगरुपं फलं, तदनुकूलक्रिया च । पतनक्रियाश्रयः पर्णं कर्तृ । विभागाश्रयः वृक्षः । अतो वृक्षोऽपादानम् । अपादानभूतात् वृक्षात् पञ्चमी अपादाने पञ्चमी’ इति सूत्रेण । (सप्तमं (७) पृष्ठं पश्यन्तु ।) २. पापात् जुगुप्सते । अधर्माता विरमति । धर्मात् प्रमाद्यति । जुगुप्साविरामप्रमादार्थानामुपस्ंख्यानम् (वा) जुगुप्सा – विराम- प्रमादार्थकधातुभिः योगे, जुगुप्साविषयस्य, विरामविषयस्य, प्रमादविषयस्य च अपादानसंज्ञा भवति ॥

  1. पापात् जुगुप्सते । अत्र जुगुप्सायाः विषयः पापम् । तस्य अपादानसंज्ञा प्रकृतवार्तिकेन । अपादानभूतात् पापात् पञ्चमी अपादाने पञ्चमीइति सूत्रेण । पापात् जुगुप्सते = पापविषये न रमते ।
  2. अधर्मात् विरमति । अत्र विरामस्य विषयोऽधर्मः । तस्य अपादानसंज्ञा भवति । अपादानभूतात् अधर्मात् पञ्चमी अपादाने पञ्चमी’ इति सूत्रेण । अधर्माद्विरमति =अधर्मविषये न प्रवर्तते इत्यर्थः ।
  3. धर्मात् प्रमाद्यति । प्रमादस्य विषयः धर्मः । तस्य अपादानसंज्ञा । अपादानभूतात् धर्मात्पञ्चमी अपादाने पञ्चमी’ इति सूत्रेण । धर्मात्प्रमाद्यति = धर्मविषये मुह्यति इत्यर्थः ।
  4. चोरात् बिभेति । व्याघ्रात् रक्षति । भीत्रार्थानां भयहेतुः (पा.सू. – १/४/२५) भयार्थानां त्राणार्थानां च प्रयोगे भयहेतुः अपादानं स्यात् ।
  5. शिष्य उपाध्यायात् अधीते । आख्यातोपयोगे (पा.सू. – १/४/२९) नियमपूर्वविद्यास्वीकारे वक्ता आपदानं स्यात् । वक्ता = अध्यापयिता ।
  6. शिष्यः उपाध्यायात् अधीते । आखातोपयोगे (पा.सू. -१/४/२९) नियमपूर्वविद्यास्वीकारे वक्ता आपदानं स्यात् । वक्ता = अध्यापयिता ।
  7. शिष्यः उपाध्यायात् अधीते । नियमपूर्वकविद्यायाः स्वीकर्ता शिष्यः । अतः शिष्यः कर्ता । तस्य अध्यापयिता उपाध्यायः । अतः उपाध्यायः अपादानम् । उपाध्यायात् पञ्चमी । शिष्यः उपाध्यायादधीते = नियमविशेषपूर्वकम् उपाध्यायस्योच्चारणम् अनुच्चारयति इत्यर्थः ।
  8. तन्तुभ्यः पटो भवति । जनिकर्तृः प्रकृतिः (पा.सू.-१/४/३०) जायमानस्य हेतुः अपादानं स्यात् । तन्तुभ्यः पटो भवति । अत्र जायमानः पटः । तस्य हेतुः तन्तवः । अतः तन्तवः अपादानम् । ततो पञ्चमी । तन्तुभ्यः पटो भवति = तन्तुभ्यः पटो जायते इत्यर्थः ॥

उपपदपञ्चमीविभक्तिः

[सम्पादयतु]

पञ्चमीविभक्तौ उपपदपञ्चमी अन्यतमा । ‘अन्यारादितरर्तेदिक् शब्दञ्चूत्तरपदाजाहियुक्ते’ (पा. सू. – २/३/२९) अन्य, आरात्, इतर, ऋते, दिक शब्द, अञ्चूत्तरपद, आच आदि इत्येतैर्योगे पञ्चमी विभक्तिः भवति । सूत्रे तदा इतरग्रहणं स्पष्टार्थम् इति ज्ञेयम् ॥

बाल्यात् प्रभृति पञ्चवादने उत्तिष्ठति । मासात् आरभ्य मेघो वर्षति । कार्तिक्याः प्रभृति इति भाष्यप्रयोगात् प्रभ्रुत्यर्थ- योगे पञ्चमी भवति । प्रभृत्यर्थयोगे इति कथनात् ‘आरभ्य’ इत्यस्य योगेऽपि पञ्चमी भवति । बाल्यात्प्रभृति पञ्चवादने उत्तिष्ठति = बाल्यम् अवधिम् आदाय पञ्चवादेन उत्तिष्ठति इत्यर्थः । मासादारभ्य मेघो वर्षति= मासम् अवधिम् आदाय मेघो वर्षति इत्यर्थः ॥

आरम्भ इत्यस्य योगे द्वितीयापि भवति । ‘अवीचीमारभ्य’ इति भाष्यप्रयोगात् । तेन ‘सूर्योदयमारभ्य आस्तमयाज्जपति इति सिध्दम् । प्रारम्भं कृत्वा इत्यर्थ ‘आरभ्य इत्यस्य योगे सप्तमी अपि । यथा – आरभ्य तस्यां दशमीन्तु यावत् इति । तस्यां प्रारम्भं कृत्वा इत्यर्थ ‘आरभ्य इत्यस्य योगे सप्तमी अपि । यथा – आरभ्य तस्यां दशमीन्तु यावत् इति । तस्यां प्रारम्भं कृत्वा दशमीपर्यन्तं यावत् इत्यर्थः ॥

गृहाद् बहिः कुतः तिष्ठसि ? ‘अपपरिवहिरञ्चवः पञ्चम्याः’ (पा.सू.-२/१/१२) अप् परि बहिस्, अञ्चु इत्येते पञ्चम्यन्तेन वा समस्यन्ते । यथा – वनाद् बहिः= बहुर्वनम् । अनेन सूत्रेण पञ्चम्यन्तेन सह ‘बहिः’ इत्यस्य शब्दस्य समासविधानात् ज्ञायते यत् बहिर्योगे पञ्चमी भवति इति । बहिर्योगे पञ्चम्याः विधायकस्य सूत्रस्य अभावेन पूर्वोक्तात् ज्ञापकात् बहिर्योगे पञ्चमी भवति ॥

शनैः शनैः गच्छति आलस्यात् । आलस्येन वा । विभाषा गुणेऽस्त्रियाम् (पा. सू. -२/३/२५) गुणे हेतौ पञ्चमी वा स्यात् । स्त्रीलिङ्गे तु पञ्चमी न भवति । अत्र आलस्यमिति गुणवाचकः शाब्दः । शनैः गमने आलस्य हेतुः । अतः आलस्यात् पञ्चमी भवति । पञ्चम्याः विकल्पेन विधानात् पञ्चम्याः अभावे हेतौ (पा.सू. २३.२३) इति सूत्रेण तृतीया भवति । अतः हेतुतृतीयायाः विकल्पेन गुणं प्रति अपवादभूता पञ्चमी इति ज्ञेयम् । दण्डात् घटः इति प्रयोगः चिन्त्यः एव । यद्यपि घटस्य दण्डः हेतुः, तथापि गुणवाचकादेव पञ्चमी भवति इत्युक्तत्वात्पञ्चमी न । दण्डस्तु न गुणः । अतः दण्डेन घटः इत्येव प्रयोगः । ‘प्रज्ञायाः मुक्तिः’ इत्यपि न भवति । यद्यपि प्रज्ञागुणः मुक्ते हेतुश्च तथापि ‘स्त्रीलिङ्गे’ न भवति इति निषेधात् पञ्चमी न भवति । प्रज्ञायाः स्त्रीत्वात् । इत्येवं पञ्चमीप्रयोगाः वर्तन्ते ॥

षष्ठीविभक्तिः

[सम्पादयतु]

षष्ठी द्विधा शेषषष्ठी, कारकषष्ठी च इति । शेषषष्ठी एव सम्बन्धसामान्ये षष्ठी इति उच्यते ।केषाञ्चन कृदन्तानां योगे कर्तरि कर्मणि च षष्ठी विहिता । सा कारकषष्ठी इति उच्यते । षष्ठ्याः कारकत्वं नास्ति इत्यस्य शेषषष्ठ्याः कारकत्वं नास्ति इति आशयः । अतः षष्ठ्याः कारकत्वं नास्ति इति प्रायोवादमात्रम् ॥

शेषषष्ठीविभक्तिः

[सम्पादयतु]

राज्ञः पुरुषः । दशारथस्य पुत्र । वृक्षस्य पर्णम् । षष्ठी शेषे (पा.सू. -२.३.५०) कारकप्रातिपदिकार्थ व्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः । तत्र षष्ठी स्यात् । अयं भावः-शेषो नाम उक्तादन्यः शेषः । कानि तर्हि उक्तानि ? ककर्तृकरणसम्प्रदानापादानाधिकरणानि उक्तानि । प्रातिपादिकार्थश्च उक्तः । कथम् एषः अर्थः लब्धः ? षष्ठीशेषे (पा.सू. -२.३.५०)इति सूत्रात्पूर्वं “कर्मणि द्वितीया’ इत्यारभ्य “ प्रतिपादिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा” (पा.सू.-२.३.४६)इत्यन्तं षट् कारकणि प्रातिपदिकार्थश्च अष्टाध्याय्यां पूर्वम् उक्तानि । अतः शेषो नाम उक्तात् अन्यः । कस्तर्हि एतेभ्यः षड्भ्यः कारकेभ्यः प्रातिपदिकार्थाच्च अतिरिक्तः अस्ति ? इति चेत् स्वस्वामिभावः जन्यजनकभावः अवयवावयविभावः इत्यादयः । एवं च कर्मादिकारकेषु द्वितीयादयः प्रवर्तन्ते, प्रातिपदिकार्थे च प्रथमा भवति, स्वस्वामिभावादिसम्बन्धे षष्ठी स्यात् इति पर्यवसन्नः अर्थः । यथा राज्ञः पुरुषः ॥

राज्ञः पुरुषः । दशरथस्य पुत्रः । वृक्षस्य पर्णम् ।

देवदत्तः मातुस्मरति । अस्मिन् वाक्ये देवदत्तः कर्ता, माता कर्म भवितुं योग्या । यत्र कर्मत्त्वेन (मातृकर्मकं स्मरणम्) अविवक्षित्वा सम्बन्धसामान्यं (मातृसम्बन्धिस्मरणम्)विवक्ष्यते तत्र षष्ठी स्यात् । अतः अत्र मातृशब्दात् षष्ठी । देवदत्तकर्तृकं मातृसम्बन्धिस्मरणम् इत्यर्थः उपर्युक्तस्य वाक्यस्य । यदि कर्मत्वेन (मातृकर्मकं स्मरणम्) विवक्षा तदा द्वितीया भवेत् एव-देवदत्तः मातरं स्मरति इति । एवं भजे शम्भोश्चरणयोः इति ॥

कारकशषष्ठीविभक्तिः

[सम्पादयतु]

कृष्णस्य गमनम् । श्लोकस्य पाठकः । कर्तृकर्मणोः कृतिः (पा.सू. -२.३.६५) कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् ॥

  • साधु खलु ! पयसः पानं बालकेन । उभयप्राप्तौ कर्मणि(पा.सू.-२.३.६६) उभयोः प्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् । एकस्मिन् वाक्ये कृद्योगे उभयोः कतृकर्मणोः षष्ठी प्रसक्तौ कर्मणि एव षष्ठी स्यात् , नतु कर्तरि इति नियमार्थम् इदं सूत्रम् ।
  • पयसः पानं बालकेन इत्यत्र पानमिति कृदन्तं (ल्युट्) पदम् । अत्र कर्तृकर्मणोः कृति (पा.सू.- २.३.६५ ) इति कर्मणः (पयसः) षष्ठी न तु कर्तुः (बालकेन) ॥

शब्दानाम् अनुशासनम् आचार्यस्य /शब्दानाम् अनुशासनम् आचार्येण । शेषे विभाषा (वा.) अकप्रत्ययम् अकारप्रत्ययं च वर्जयित्वा अन्येषां कृदन्तानां योगे उभयप्राप्तौ कर्मणि (पा.सू.- २.३.६६) इति नियमःविकल्प्यते इति वार्तिकस्यार्थः । तथा च कर्तृकर्मणोः उभयोः उपादाने कर्मणि एव षष्ठी स्यात् कर्तरि विकल्पेन षष्ठी भवतीति पर्यवसन्नम् । कर्तरि षष्ठयां- ‘शब्दानाम् अनुशासनम् आचार्यस्य’ इति । कर्तरि षष्ठ्यभावे –‘शब्दानाम् अनुशासनम् आचार्येण’ इति । अनयोः वाक्ययोः शब्दः कर्म आचार्यः कर्ता इति ज्ञेयम् ॥

  • मम इष्टः । सर्वेषां ज्ञातः । क्तस्य च वर्तमाने (पा.सू.-२.३.६७) वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । क्तप्रत्ययः भूते (श्लोकः पठितः) वर्तमाने (सर्वेषाम् इष्टः) आदिकर्मणी (कटं कृतः) कालसामान्ये च (छात्रस्य हसितम्) विहितः । मतिबुध्दि पूजार्थेभ्यश्च (पा.सू. .- ३.२.१८८) इति सूत्रेण इच्छार्थे, बुध्द्यर्थे, पूजार्थे च वर्तमाने अपि क्तप्रत्ययः विहितः ।
  • लोकहितं मम (मया) करणीयम् । मम (मया) हरिः सेव्यः । कृत्यानां कर्तरि वा(पा. सू.-२.३.७१)कृत्यप्रत्ययान्तानां योगे कर्तरि षष्ठी वा स्यात् । कृत्प्रत्ययेषु अर्न्तभूताः सप्त कृत्प्रत्ययाः (तव्य, तव्यत्, अनीयर्, यत्, क्यप्, व्यत् कैलिमर्) सन्ति । एतेषामपि कृत्संज्ञा अस्ति एव । अतः कर्तृ कर्मणोः इति षष्ठी कर्तुः नित्यं प्राप्ता, अनेन विकल्प्यते । षष्ठीपक्षे- लोकहितं मम करणीयम्, मम हरिः सेव्यः इति । षष्ठ्यभावपक्षे – कर्तृकरणयोस्तृतीया (पा.सू. २.३.१८) इति कर्तरि तृतीया भवति –लोकहितं मया करणीयम्’ मया हरिः सेव्यः इति ॥

उपपदषष्ठीविभक्तिः

[सम्पादयतु]

चन्द्रस्य (चन्द्रेण) सदृशं मुखम् । बलरामस्य (बलरामेण) तुल्यः (सदृशः) भीमः । तुल्यार्थैररुलोपमाभ्यां तृतीयान्यतरस्याम् (पा.सू.२.३.७२) तुल्यार्थैः योगे तृतीया वा स्यात् पक्षे षष्ठी । षष्ठीपक्षे चन्द्रस्य सदृशं मुखम् षष्ठयभावे तृतीया भवति चन्द्रेणा सदृशं मुखम् इति ॥

  • गृहस्य (गृहाद्) दूरं विद्यालयः । विद्यालयस्य (विद्यालयात्) निकटम् आपणः । दूरान्तिकार्थैः षष्ठी अन्यतरस्याम् (पा.सू.- २.२.३४) दूरान्तिकार्थैः शब्दैः योगे षष्ठी स्यात् पञ्चमी च ।
  • प्राणिनां (प्राणिषु) मानवः श्रेष्ठः । गवां (गोषु कपिला बहुक्षीरा । अध्वगानां (अध्वगेषु) धावन् शीघ्रतमः । छात्रेणां (छात्रेषु) श्यामः पटुः । इत्येवं प्रयोगाः वर्तन्ते षष्ठ्याम् ॥

सप्तमीविभक्तिः

[सम्पादयतु]

कारकसप्तमी, उपपदस्प्तमी, चेति सप्तमी द्विधा । अधिकरणसंज्ञां पुरस्कृत्य प्रवर्तमानां सप्तमी कारकसप्तमी । अधिकरणसंज्ञा च एकेनैव सूत्रेण विहिता । यदा अधिकरणसंज्ञा प्रवृत्ता भवति तदा ‘सप्तम्यधिकरणे च -२.३.३६’ (अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः । ) इति सूत्रेण सप्तमी प्रवर्तते । बहुभिः सूत्रैः वार्तिकैः च उपपदसप्तमी विहिता । कर्मप्रवचनीयसंज्ञां पुरस्कृत्य सप्तमी तु एकेनैव सूत्रेण विहिता । १. बालः कटे उपविशति । पाचकः स्थाल्याम् ओदनं पचति । तस्य पठने इच्छा अस्ति । तिलेषु तैलम् अस्ति । आधारोऽधिकरणम् -१.४.४५ कर्तृकर्मद्वारा तन्निष्ठाक्रियायाः आधारः कारकम् अधिकरणसंज्ञः स्यात् ॥

औपश्लेषिकसप्तमी

[सम्पादयतु]

एकदेशव्याप्तिरुपः आधारः औपश्लेषिकः । सः च संयोगमूलकः समवायमूलको वा भवति । अयम् आधारः स्वस्य एकदेशव्याप्तिरुपो भवति, न तु सकलावयवव्याप्तिरुपः । यथा –कटे उपविशति । अत्र कटः उपवेशनक्रियायाः आधारः । किन्तु उपवेशनक्रिया कटस्य एकदेशे भवति, न तु कृत्स्ने कटे । अत्र सम्बन्धः संयोगः । अतः अयम् औपश्लेषिकः आधारः । ‘पाचकः स्थाल्याम् ओदनं पचति’ इत्यत्र तु ओदनं कर्म । तन्कर्मनिष्ठक्रियायाः आधारः स्थाली । एषोऽपि औपश्लेषिकः एव ॥

वैषयिकसप्तमी

[सम्पादयतु]

विषयतादिसम्बन्धमूलकः आधारः वैषयिकः । अत्र संयोगः समवायो वा न भवति । अतः औपश्लेषिकाभिव्यापकातिरिक्तः सर्वः अपि आधारः वैषयिकः इति ज्ञेयम् । यथा – पठने इच्छा अस्ति । पठनविषयिणी इच्छा इत्यर्थः । अत्र पठनम् आधारः । सम्बन्धश्च विषयता, न संयोगः समवायो वा । इदं ज्ञेयम् – पक्षिणः आकाशे डयन्ते । शिष्यः गुरौ वसति । इत्यादीनि वैषयिकस्यैव उदाहरणानि । न हि अत्र संयोगः समवायो वा सम्बन्धः । अतो यत्र संयोगसमवायसम्बन्धौ न भवतः तत्र सर्वत्रापि वैषयिकः आधारः इति निश्चेतव्यम् ॥

अभिव्यापकसप्तमी

[सम्पादयतु]

संयोगसमवायमूलकः सकलावयवव्यापितरुपः अभिव्यापकः । यथा –तिलेषु तैलम् अस्ति । अत्र आधारः तिलानि । तिलानां सकलावयवेषु तैलम् (तैलस्य सत्ता) अस्ति । सम्बन्धश्च समवायः । अतः अयम् अभिव्यापकः आधारः । एवं सर्वस्मिन् आत्मा अस्ति । दध्नि सर्पिः अस्ति ॥

"https://sa.wikipedia.org/w/index.php?title=विभक्तिः&oldid=491025" इत्यस्माद् प्रतिप्राप्तम्