तृतीयाविभक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



कारकतृतीया उपपदतृतीया इति तृतीया द्विविधा । कर्तृकारके करणकारके च तृतीयाविधानात् कर्तृतृतीया करणतृतीया चेति कारकतृतीया द्विविधा । एवञ्च कर्तृकारकतृतीया, करणकारकतृतीया, उपपदतृतीया चेति तृतीया अपि त्रिविधा भवति ।

यः कर्ता, यच्च करणं, तस्मात् कर्तृवाचकात् करणवाचकात् च तृतीया भवति । अनुक्ते कर्तरि करणे च तृतीयाविधायकं सूत्रम् एकम् एव – कर्तृकरणयोस्तृतीया २.३.१८(अनभिहिते कर्तरि करणे च तृतीया स्यात् ) इति । उपपदतृतीया विधायकसूत्राणि बहूनि सन्ति ।

कारकतृतीया[सम्पादयतु]

कर्तरि[सम्पादयतु]

१. अध्यापकेन विद्यालयः गम्यते । स्वतन्त्रः कर्ता -१.४.५४ क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् । स्वातन्त्र्यं नाम क्रियाश्रयत्वम् । एवञ्च क्रियाश्रयः कर्ता इति फलितोऽर्थः । अध्यापकेन विद्यालयः गम्यते । अत्र गम् धातोरर्थः संयोगरुपं फलं, तदनुकूलक्रिया च । गमनक्रियाश्रयः अध्यापकः । अतः अध्यापकः कर्ता । गम्यते इत्यत्र तेइति प्रत्ययस्य अर्थः कर्म, न तु कर्ता । अतः ते इति प्रत्ययेन कर्ता न उक्तः (अनभिहितः इत्यर्थः ) । तस्मात् कर्तृवाचकात् अध्यापकशब्दात् कर्तृकरणयोस्तृतीया – २.३.१८इति सूत्रेण तृतीया भवति । इदमवधेयम् –कर्मणिप्रयोगेषु (कर्मवाच्येषु) भावेप्रयोगेषु (भाववाच्येषु ) च कर्तृपदं तृतीयान्तम् एव भवति यथा – सूदेन तण्डुलः पच्यते । पुष्पेण विकस्यते । पच्यतेइत्यत्र तेइत्यस्य अर्थः कर्म, न तु कर्ता ।विकस्यतेइत्यत्र तेइत्यस्य अर्थः भावः, न तु कर्ता । एवञ्च उभयत्रापि कर्ता न उक्तः (अनभिहितः)। कर्तुः अनभिहितत्वात् उभयत्रापि कर्तृकरणयोः तृतीयाइति तृतीया एव भवति ।

करणे[सम्पादयतु]

२. रामः बाणेन रावणं हन्ति । साधकतमं करणम् -१.४.४२ क्रियासिध्दौ प्रकृष्टोपकारकं कारकं करणसंज्ञं स्यात् । रामः बाणेन रावणं हन्ति । अत्र हन्धातोर्थः – प्राणवियोगरुपं फलं, तदनुकूलव्यापारश्च । अत्र रामः कर्ता । प्राणवियोगरुपफलाश्रयत्वात् रावणः कर्म । प्राणवियोगरुपं फलं बाणप्रवेशसमनन्तरमेव भवतीति बाणः करणम् । तस्मात् करणवाचकात् कर्तृकरणयोः तृतीयाइति तृतीया भवति । ( षष्ठं (६) पृष्ठमपि पश्यन्तु ।) ३. अक्षैः दीव्यति (अक्षान् दीव्यति ) दिवः कर्म च -१.४.४३ दिवः साधकतमं कारकं कर्मसंज्ञं स्यात्, चात् करणसंज्ञम् । अक्षैर्दीव्यति । अक्षाणां करणसंज्ञायां कर्तृकरणयोस्तृतीयाइति तृतीया भवति । अक्षाणां कर्मसंज्ञायां तु कर्मणि द्वितीयाइति द्वितीया भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तृतीयाविभक्तिः&oldid=419200" इत्यस्माद् पुनः प्राप्तिः