वीर बन्दा वैरागी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


वीर बन्दा वैरागी (हिन्दी: वीर बन्दा वैरागी, आङ्ग्ल: veer banda vairagi)  इत्येतं विहाय ये युद्धस्य हिंसकक्रियया दुःखयुक्ताः सन्तः वैरागिणः अभवन् तादृशाम् अशोकचक्रवर्तिसदृशां बहूनां योधानाम् उदाहरणानि इतिहासे प्राप्यन्ते । किन्तु धर्मग्लानिना खिन्नः सन् यः वैरागी अभवत् तादृक् एकैव योधः । स च वीर बन्दा वैरागी इत्याख्यः लक्ष्मणदासः ।

जन्म[सम्पादयतु]

वीर बन्दा वैरागी इत्यस्य नाम लक्ष्मणदासः आसीत् । तस्य जन्म काश्मीर-प्रान्तस्य राजौरी-नगरे १६७० तमे वर्षे अभवत् । राजौरी-नगरे जातस्य अस्य लक्ष्मणदासस्य माता-पिताविषये कुत्राऽपि उल्लेखः नास्ति ।

शिक्षणम्[सम्पादयतु]

राजौरी-नगरे पाठशालायाः अभावात् लक्ष्मणदासेन प्राथमिकं शिक्षणम् न प्राप्तम् । तदानीङ्काले क्षत्रियेभ्यः शस्त्रशिक्षणमेव महत्वपूर्णमासीत् । अतः डोङ्गरा-राजपूत लक्ष्मणदासः धनुर्विद्यायाम्, अश्वारोहे, मल्लयुद्धे च स्वाभाविकरीत्यैव निपुणः अभवत् ।

लक्ष्मणदासस्य गृहत्यागः[सम्पादयतु]

एकदा क्षात्र-धर्मानुसारेण लक्ष्मणदासः मृगयितुम् अगच्छत् । तत्र एकां हरिणीं दृष्ट्वा तां हन्तुं बाणेन प्रहारम् अकरोत् । किञ्चत्कालान्तरे हरिणी मृता । हरिण्याः उदरात् शिशुः अपि प्रसूतः सन् मृतः । तत् दृष्ट्वा लक्ष्मणदासस्य हृदयपरिवर्तनम् अभवत् । सः कतिचित् दिनानि मूकमिव वर्तनम् अकरोत्, मांसाहारम् अत्यजत् च । सः आत्मनि भारमनुभूय वैराग्यभावनया गृहम् अपि अत्यजत् ।

साधुना सह मेलनम्, नामपरिवर्तनं च[सम्पादयतु]

गृहे त्यक्ते सति एकेन साधुना प्रेरितः लक्ष्मणदासः इतस्ततः भ्रमन् महाराष्ट्रं गतः । तत्र लक्ष्मणदासस्य ओघडनाथ इत्याख्येन साधुना सह मेलनम् अभवत् । लक्ष्मणदासः तत्र स्थित्वा ओघडनाथ इत्याख्यस्य सेवायाः कार्यम् अकरोत् । कालान्तरे गुरुणा लक्ष्मणदासाय माधवदास इति नाम प्रदत्तम् ।

उभयोः नान्देड-ग्रामे निवासः[सम्पादयतु]

ततः परं गुरुशिष्यौ गोदावरी तटं गतौ । नद्याः तटे नान्देड-ग्रामे ताभ्यामेकः आश्रमः स्थापितः । तत्र गुरुणा स्वस्य सर्वाः विद्याः शिष्याय माधवदासाय प्रदत्ताः । अनन्तरं स्वल्पैव समये तौ निकटवर्ति-ग्रामेषु प्रसिद्धौ अभवताम् । एकदा नान्देड-ग्रामस्य कालिकामन्दिररस्य अर्चकेन माधवदासस्य कीर्तिः श्रुता । अतः तेन ईर्ष्यावशात् स्वस्य प्रमुखशिष्याः नान्देड-ग्रामस्य आश्रमं प्रेषिताः । किन्तु तस्य प्रमुखशिष्याः माधवदासस्य ज्ञानेन प्रभाविताः सन्तः तस्य शिष्यत्वं स्वीकृतवन्तः । अनेन अर्चकः उग्रतां प्राप्य स्वयमेव आश्रममगच्छत् । परन्तु स्वशिष्यवद् सोऽपि माधवदासस्य ज्ञानेन प्रभावितः सन् तस्य शिष्यत्वं स्वीकृतवान् । अस्मात् कारणात् माधवदासः समग्रे नान्देड-विस्तारे प्रसिद्धः अभवत् । अनेकैः वैरागिभिः तस्य गुरुत्वेन स्वीकारः कृतः ।

गोविन्दसिंहस्य उज्जैनगमम्[सम्पादयतु]

दिल्ली-नगरे यवनराजस्य औरङ्गजेब इत्याख्यस्य शासनमासीत् । सः हिन्दूनामुपरि अमानुषीम् अत्याचारं करोति स्म । दक्षिणभारते औरङ्गजेब इत्यनेन सह अमोघं युद्धं कर्तुं शिवाजी आसीत् किन्तु सोऽपि मृतः । शिवाजी-वद् उत्तरभारते औरङ्गजेब इत्यनेन सह युद्धं कर्तुं गुरुगोविन्दसिंहः आसीत् । सः स्वस्य चतुर्णां पुत्राणां बलिदानम् अददात् । तथापि कार्पण्यतां न गतः, अपि तु धर्मरक्षणाय आ-देशं भ्रममाणः आसीत् । जनेभ्यः उपदेशं दत्त्वा युद्धाय तान् सज्जीकुर्वन् आसीत् । तस्य मतम् आसीत् यत् “अत्याचारस्य उत्तरं भक्त्या न, अपि तु शक्त्या एव देयम्” इति । इत्थं प्रचारं कुर्वन् गोविन्दसिंहः उज्जैन-नगरं गतः ।

गुरुगोविन्दसिंहस्य माधवदासेन सह मेलनम्[सम्पादयतु]

उज्जैन-नगरे गोविन्दसिंहः दादू-पन्थस्य गुरुं नारायणदासम् अमिलत् । तदा दादू-पन्थस्य गुरुः नारायणदासः तम् अकथयत् “भवान् यादृशं वीरपुरुषम् अन्विष्यति तादृक् वीरपुरुषः नान्देड-ग्रामे वसति । सः साधुरूपेण मठाधिपोऽस्ति । किन्तु तस्य मुखारविन्दं क्षत्रिय-तेजसा युक्तमस्ति इति मया दृष्टम्” इति । गुरुगोविन्दसिंहः तम्मिलितुं रसयुतः अभवत् । सः नान्देड-नगरं गतः । तत्र सः नारायणदासेन यदुक्तम् तदेव तेजः माधवदासे अपश्यत् । माधवदासेनापि गुरुगोविन्दसिंहस्य पराक्रमाणां विषये श्रुतमासीत् । अतः तयोः मेलनम् अलौकिकम् अभवत् ।

माधवदासस्य क्षात्रधर्मप्रबुद्धिः[सम्पादयतु]

यदा गुरुगोविन्दसिंहः धर्मरक्षणाय माधवदासं शस्त्राणि ग्रहीतुम् अकथयत्, तदा माधवदासः अवदत् यत्, “मया संसारः त्यक्तः अस्ति । संन्यासी संसारे कथम् आगच्छेत् ?” इति । किन्तु गोविन्दसिंहेन पुनरुक्तम् – “सर्वे एवमेव विचारयन्ति चेद् धर्मरक्षणं के करिष्यन्ति ? देशधर्मयोः रक्षणे शस्त्रग्रहणमेव कर्मयोगः” इति । गुरुगोविन्दसिंहः माधवदासम् प्रबोध्य तस्य क्षात्रधर्मं प्रबुद्धम् अकरोत् । माधवदासेन धर्मरक्षणाय गुरुगोविन्दसिंहः आश्वस्तः । गुरुगोविन्दसिंहः माधवदासम् अमृतम् अपाययत्, गुरुबक्षसिंह इति नाम अयच्छत् च । किन्तु जनैः माधवदासः वीर बन्दा वैरागी इत्येव नाम्ना स्वीकृतः । गुरुगोविन्दसिंहेन तस्मै खड्गः धनुः च प्रदत्तम् ।

उत्तरभारतं प्रति गमनम्, जनानां प्रबुद्धिकरणं च[सम्पादयतु]

ततः परं माधवदासः अश्वमारुह्य उत्तरभारतं प्रति गतः । तेन सह पञ्चविंशतिः योधाः आसन् । योधानाम् आधिक्यम् भवेत् इति माधवदासः मार्गस्थग्रामेषु “यैस्सह अत्याचाराः अभवन्, ते आगत्य आक्षेपं कुर्युः” इति प्रतिग्रामं घोषणाम् अकरोत् येन जनाः सहायतां कर्तुं जागृताः भवेयुः । पञ्जाब-प्रान्तं गत्वा माधवदासेन सरहिन्द-नगरस्य उपरि आक्रमणं कर्तुं विचारितम् । यद्यपि ततः प्राक् एव तेन कैथल, समाना, शाहाबाद, अम्बाला, कपूरी इत्येताः नगर्यः जिताः तथापि तस्य मनसि सन्तोषः नासीत् ।

वजीर खान इत्यस्य वधः सरहिन्द-विजयः[सम्पादयतु]

औरङ्गजेब इत्याख्यस्य आदेशेन सूबा वजीर खान इत्यनेन गुरुगोविन्दसिंहस्य पुत्रौ भित्त्यां पूरितौ आस्ताम् । अतः माधवदासस्य खड्गः सूबा वजीर खान इत्यस्य रुधिरम् इच्छति स्म । क्रूरः औरङ्गजेब इत्याख्यः मृतः । किन्तु वजीर खान इत्येतं जीवितं दृष्ट्वा माधवदासः गुरुपुत्रयोः मरणवैरत्वेन सरहिन्द-नगरं जेतुम् ऐच्छत् । वजीर खान इत्यनेनापि वार्तेयं श्रुत्वा युद्धाय मोगलसेना सज्जीकृता । तदनन्तरम् उभयोः सेनयोः भीषणं युद्धमभवत् । माधवदासस्य सेनायाः नायकौ फतेह सिंह करम सिंह च आस्ताम् । माधवदासः शिखरस्थः आसीत् किन्तु तेन वजीर खान इत्येतं हन्तुं बाज सिंह सूचितः । सूचनया सज्जेन बाज सिंह इत्यनेन वजीर खान इत्यस्य भल्लास्त्रं तस्यैवोदरे प्रेषितम् । तथापि व्रणितेन वजीर खान इत्यनेन बाणः चालितः येन बाज सिंह इत्यस्य हस्तः व्रणितः अभवत् । इदं दृश्यम् दृष्ट्वा सेनानायकः फतेह सिंह क्रोधाविष्टः सन् वजीर खान इत्येतस्य मस्तकम् अछिनत् । नायके हते सति मोगलसैनिकाः युद्धभूमितः पलायिताः अभवन् । माधवदासस्य सैनिकैः सरहिन्द-नगरोपरि विजयः प्राप्तः ।

माधवदासस्य मानवता सेवा च[सम्पादयतु]

यस्मिन् मस्जिद-स्थले गुरुपुत्रौ भित्त्यां पूरितौ तत् स्थलं नाशयितुं सैनिकाः समुत्सुकाः अभवन् । किन्तु वीर बन्दा वैरागी इत्यनेन उक्तम् – “अस्माकं युद्धं धर्मपालकेन सह आसीत् धर्मस्थलेन सह न” इति । ततः परं वीर बन्दा वैरागी इत्ययं सरहिन्द-राज्यं बाज सिंह इत्यस्मै अयच्छत् । अन्ये माधवदासेन सह आनन्दपुरम् अगच्छन् । तत्र माधवदासः धनिकेभ्यः त्रस्तान् कृषकान् अमुञ्चत । अनन्तरं गुरुनाम्नः मुद्रां निर्मीय तदुपरि “गुरुनानक तथा गोविन्दसिंहस्य प्रतापेनैव अस्माभिः अक्षयं धनं प्राप्तम्” इति अलेखयत् ।

माधवदासस्य पराजयः पलायनं च[सम्पादयतु]

सरहिन्द-नगरोपरि हिन्दुसैनिकैः विजयः प्राप्तः इति सन्देशं श्रुत्वा बहादुर शाह इत्यनेन आसिक उद् दौला इत्यस्य नेतृत्वे अपरा सेना प्रेषिता । सेनया सह इलाहाबाद, मुरादाबाद, लाहोर इत्याख्यानां नगराणां जिहादी-जनाः मिलिताः । तेषां विशालायाः सेनायाः पुरतः माधवदासस्य लघ्वी सेना पराजयं प्राप्तवती । सरहिन्द-नगरं गतं, सिक्खसैनिकैः लोहगढ-दुर्गे आश्रयः प्राप्तः । मोगलसैनिकाः ताननुधावन्तः लोहगढ-दुर्गं प्राप्ताः । परिस्थितिं दृष्ट्वा माधवदासः पलायनम् अकरोत् ।

विवाहः[सम्पादयतु]

एकदा मोगलसैनिकाः कुटिलनीत्या माधवदासं कारागारं प्रैषयन् । माधवदासः कारागारं विभेद्य चम्बा-नगरं गतः । तत्र माधवदासस्य वीरगाथां श्रुत्वा प्रसन्नः सन् राजा तेन सह स्वकन्यायाः विवाहम् अकरोत् । वर्षान्ते माधवसदासस्य पत्न्युदरात् अक्षयसिंह-नामाख्यः पुत्रोऽभवत् ।

बहादुर शाह इत्यस्य मृत्युःपदप्राप्त्यै मुगलानां सङ्घर्षश्च[सम्पादयतु]

मोगलसेना माधवदासम् अन्वेषयन् आसीत् । अतः सः चम्बा-नगरात् जम्मू-नगरम् अगच्छत् । तदैव तत्र माधवदासेन बहादुर शाह इत्यस्य मरणसन्देशः प्राप्तः । बहादुर शाह इत्यस्य अवसानकारणात् दिल्ली-नगरस्य पदप्राप्त्यै मुगल-वंशीयेषु आन्तरिकसङ्घर्षः अभवत् । बहादुर शाह इत्यस्य पुत्रः जहादर शाह नामाख्यः पदम् आलङ्करोत् । किन्तु जहादर शाह इत्यस्य पैतृव्यः फारुख सियार इत्यनेन कुटिलनीत्या बलात् पदम् अलङ्कृतम् । इत्थं कलहपूर्णं वातावरणं दृष्ट्वा माधवदासेन लोहगढ, साठौरा इत्येतयोः स्थानयोः विजयः प्राप्तः । बादशाह फारुख सियार इत्यनेन लोहगढ प्रति सेना प्रेषिता । किन्तु माधवदासः सेनया सह भयङ्करं युद्धमकरोत् । माधवदासः सेनायाः शस्त्राणि सङ्गृह्य ताम् अपराजयत् ।

माधवदासस्य मृत्युः[सम्पादयतु]

स्वयं बादशाह फारुख सियार इत्यनेन माधवदासः वशीकृतः । तेन सह सप्तशतं सैनिकाः वशीकृताः । तस्मात् दिनात् सप्तदिनानि यावत् बादशाह फारुख सियार इत्यनेन प्रतिदिनं शतसैनिकाः मारिताः । तथा अष्टमे दिने माधवदासस्य क्रमः आसीत् । मुगल बादशाह फारुख सियार नामाख्यः तं मृत्योः प्राग् प्रतिक्षणं मारयितुम् ऐच्छत् । अतः सः तत्रोपस्थितः आसीत् । सः माधवदासम् अपृच्छत् त्वं कीदृशं मृत्युं वाञ्छसि ? वीर बन्दा वैरागी इत्यनेन उच्यते यत् – “यथा त्वमिच्छसि तथैव” । तथापि मुगल बादशाह फारुख सियार इत्यस्य क्रूरहृदये वीर बन्दा वैरागी इत्यस्य कथनं व्यर्थमासीत् । माधवदासः प्रतिक्षणं म्रियेदिति फारुख सियार ऐच्छत् । अतः माधवदासं तथा हन्तुं सः चाण्डालम् असूचयत् । चाण्डालेन सर्वप्रथमं माधवदासस्य पुत्रः अक्षयः मारितः । बलात् अक्षयस्य हृदयं माधवदासस्य मुखे स्थापयितुं चाण्डालेन प्रयत्नः कृतः । ततः परम् अत्युष्णां सुचुटीम् उदरे प्राविश्य, मांसं बहिर्निष्कास्य हस्तपादौ अकर्तयत् । अन्ते अक्षिणी निष्कास्य माधवदासस्य मस्तकं छित्त्वा तस्य हत्यामकरोत् । इत्थं १७१६ तमस्य वर्षस्य जून-मासस्य नवमे (९) दिनाङ्के षड्चत्वारिंशत् वर्षं यावत् जीवित्वा माधवसदासः स्वर्गारूढः अभवत् । तस्य कीर्तिविषये इतोऽपि जनमनांसि गायन्ति यद् –

“બંદાસિંઘ રખિ સિકખાં નાલ શીશ કટાયા, પર ધર્મન દાગ જરા નહિ લાયા.”

"https://sa.wikipedia.org/w/index.php?title=वीर_बन्दा_वैरागी&oldid=389063" इत्यस्माद् प्रतिप्राप्तम्