सम्भाषणम्:अन्ताराष्ट्रीययोगदिवसः
दिखावट
इमं लेखम् अन्ताराष्ट्रीययोगदिवसः इत्यत्र चालयन्ती अस्मि व्याकरणदृष्ट्या शुद्धरूपम् इति कारणतः । अधिकविवरणार्थं सम्भाषणसन्देशे प्रकाशितः अयं लेखः पठ्यताम् - [१] --Shubha (चर्चा) १०:३९, २० जून २०१५ (UTC)
- @Shubha: सम्भाषणम् अर्थात् भवती बहुधा जानाति इति मन्ये । यत्र पक्षद्वयं भवति । एकः परेण सह चर्चां करोति । विकिपीडिया-जाले यदि अपरः 7 दिनाभ्यान्ते उत्तरं न ददाति, तदा ईप्सितः निर्णयः योग्यः सिद्ध्यति इति भवत्या पुरा उक्तः अहम् । यथा - अत्र मया कृतम् आसीत् । 18 मई दिनाङ्के लिखितं ततः अपरपक्षं ज्ञातुं 7 जून पर्यन्तं प्रतीक्षा कृता । न किमपि उत्तरं प्राप्य मया तत्र भारतीयसङ्गीतरागाः इति कृतम् । ततः द्वितीय दिने भवती मया सह अत्र] सम्भाषणम् अकरोत् । यदि भवती पुरा एव सम्भाषणम् अकरिष्यत्, तर्हि भारतीय इत्यस्य शब्दस्य प्रयोगः मया नाभविष्यत् । भवत्याः मतानुसारं विषयस्य अन्वेषणं कृत्वा मया स्थानिन् शब्दस्य उपयोगानुसारं शीर्षकं कृतम् ।
- उक्ते एकस्य पक्षस्य अवगणनायाः उत असक्रियातायाः फलत्वेन दोषः आसीत् । सम्भाषणस्य अभावः नासीत् । परन्तु उक्ते भवती यल्लिखितवती चालयन्ती अस्मि इति तु नाशात्मकं (Vandalism) कार्यम् एव प्रतीयते । १६:०९, २० जून २०१५ समये भवती चालयन्ती अस्मि इति लिखित्वा अनुक्षणं १६:१०, २० जून २०१५ समये चालितवती । तत्र यः लेखः भवत्या प्रदर्शितः, सः लेखः एकनिमेषे कथं कोऽपि पठित्वा उत्तरं दातुं प्रभवति ? अतः भविष्यत्काले कृपया 7 दिनस्य विरामं स्वीकृत्य अपरपक्षस्य सम्भाषणस्य अभावे एव नामपरिवर्तनसदृशं बृहत् कार्यं करोतु ।
- मुख्यविषयः अस्ति राष्ट्रीयः उत राष्ट्रिय इति । मया सह लेखः पठितः । तत्र कुत्रापि एवं न लिखितं यत् राष्ट्रिय इति अशुद्धम् अस्ति इति । तत्र एवं लिखितं राष्ट्रीय इति अपि शुद्धप्रयोगः अस्ति । अतः राष्ट्रिय तथा राष्ट्रीय इत्येतयोः शब्दयोः प्रयोगः उचितः इति । अतः भवत्या यत् शीर्षकपरिवर्तनकार्यं कृतं तत् नितराम् अयोग्यम् एवास्ति । शुद्धिकौमुद्यां 58 तमे पृष्ठे महाराष्ट्रीयः इत्यस्य शब्दस्य निष्पत्तिः प्रदर्श्यते । तत्र स्पष्टतया उक्तम् अस्ति यत्, समासे सत्येव ई भवति इति । अन्ताराष्ट्रिय इत्यत्र तु अन्तर् इति अव्ययः राष्ट्रियः इत्यनेन शब्देन सह युक्तः अस्ति । सर्वे शब्दाः तद्धिताः भवन्ति अतः रोरि इत्यनेन सूत्रेण रकारस्य लोपे सति अन्त + राष्ट्रिय इति सिद्ध्यति । ढलपो पूर्वस्य दीर्घः इति किञ्चित् सूत्रम् अस्ति, येन रकारे लोपे सति पूर्वस्वरस्य दीर्घत्वे प्रप्ते अन्ता + राष्ट्रिय इति सिद्ध्यति । एवम् अन्ताराष्ट्रिय इति शब्दस्य निष्पत्तिः भवति । सः लेखः अपि एवमेव कथयति । तत्र कुत्रापि समासे न प्राप्ते दीर्घत्वं भवति इति नोक्तम् । कृपया स्वपक्षम् अपि स्थापयतु । सप्तदिवसानन्तरम् अहं तं लेखं पूर्वस्थाने copy कृत्वा स्थापयिष्यामि । इत्यलम् । ॐNehalDaveND•✉•✎ १२:०१, २१ जून २०१५ (UTC)
Start a discussion about अन्ताराष्ट्रीययोगदिवसः
विकिपीडिया की सामग्री को यथासम्भव रूप से सर्वश्रेष्ठ बनाने के लिए लोगों द्वारा जहाँ पर चर्चा की जाती है उन्हें वार्ता पृष्ठ कहा जाता है। अन्ताराष्ट्रीययोगदिवसः में सुधार कैसे करें, इसपर अन्यों के साथ चर्चा आरम्भ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।