सम्भाषणम्:अन्ताराष्ट्रीययोगदिवसः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

इमं लेखम् अन्ताराष्ट्रीययोगदिवसः इत्यत्र चालयन्ती अस्मि व्याकरणदृष्ट्या शुद्धरूपम् इति कारणतः । अधिकविवरणार्थं सम्भाषणसन्देशे प्रकाशितः अयं लेखः पठ्यताम् - [१] --Shubha (चर्चा) १०:३९, २० जून २०१५ (UTC)

@Shubha: सम्भाषणम् अर्थात् भवती बहुधा जानाति इति मन्ये । यत्र पक्षद्वयं भवति । एकः परेण सह चर्चां करोति । विकिपीडिया-जाले यदि अपरः 7 दिनाभ्यान्ते उत्तरं न ददाति, तदा ईप्सितः निर्णयः योग्यः सिद्ध्यति इति भवत्या पुरा उक्तः अहम् । यथा - अत्र मया कृतम् आसीत् । 18 मई दिनाङ्के लिखितं ततः अपरपक्षं ज्ञातुं 7 जून पर्यन्तं प्रतीक्षा कृता । न किमपि उत्तरं प्राप्य मया तत्र भारतीयसङ्गीतरागाः इति कृतम् । ततः द्वितीय दिने भवती मया सह अत्र] सम्भाषणम् अकरोत् । यदि भवती पुरा एव सम्भाषणम् अकरिष्यत्, तर्हि भारतीय इत्यस्य शब्दस्य प्रयोगः मया नाभविष्यत् । भवत्याः मतानुसारं विषयस्य अन्वेषणं कृत्वा मया स्थानिन् शब्दस्य उपयोगानुसारं शीर्षकं कृतम् ।
उक्ते एकस्य पक्षस्य अवगणनायाः उत असक्रियातायाः फलत्वेन दोषः आसीत् । सम्भाषणस्य अभावः नासीत् । परन्तु उक्ते भवती यल्लिखितवती चालयन्ती अस्मि इति तु नाशात्मकं (Vandalism) कार्यम् एव प्रतीयते । १६:०९, २० जून २०१५‎ समये भवती चालयन्ती अस्मि इति लिखित्वा अनुक्षणं १६:१०, २० जून २०१५ समये चालितवती । तत्र यः लेखः भवत्या प्रदर्शितः, सः लेखः एकनिमेषे कथं कोऽपि पठित्वा उत्तरं दातुं प्रभवति ? अतः भविष्यत्काले कृपया 7 दिनस्य विरामं स्वीकृत्य अपरपक्षस्य सम्भाषणस्य अभावे एव नामपरिवर्तनसदृशं बृहत् कार्यं करोतु ।
मुख्यविषयः अस्ति राष्ट्रीयः उत राष्ट्रिय इति । मया सह लेखः पठितः । तत्र कुत्रापि एवं न लिखितं यत् राष्ट्रिय इति अशुद्धम् अस्ति इति । तत्र एवं लिखितं राष्ट्रीय इति अपि शुद्धप्रयोगः अस्ति । अतः राष्ट्रिय तथा राष्ट्रीय इत्येतयोः शब्दयोः प्रयोगः उचितः इति । अतः भवत्या यत् शीर्षकपरिवर्तनकार्यं कृतं तत् नितराम् अयोग्यम् एवास्ति । शुद्धिकौमुद्यां 58 तमे पृष्ठे महाराष्ट्रीयः इत्यस्य शब्दस्य निष्पत्तिः प्रदर्श्यते । तत्र स्पष्टतया उक्तम् अस्ति यत्, समासे सत्येव ई भवति इति । अन्ताराष्ट्रिय इत्यत्र तु अन्तर् इति अव्ययः राष्ट्रियः इत्यनेन शब्देन सह युक्तः अस्ति । सर्वे शब्दाः तद्धिताः भवन्ति अतः रोरि इत्यनेन सूत्रेण रकारस्य लोपे सति अन्त + राष्ट्रिय इति सिद्ध्यति । ढलपो पूर्वस्य दीर्घः इति किञ्चित् सूत्रम् अस्ति, येन रकारे लोपे सति पूर्वस्वरस्य दीर्घत्वे प्रप्ते अन्ता + राष्ट्रिय इति सिद्ध्यति । एवम् अन्ताराष्ट्रिय इति शब्दस्य निष्पत्तिः भवति । सः लेखः अपि एवमेव कथयति । तत्र कुत्रापि समासे न प्राप्ते दीर्घत्वं भवति इति नोक्तम् । कृपया स्वपक्षम् अपि स्थापयतु । सप्तदिवसानन्तरम् अहं तं लेखं पूर्वस्थाने copy कृत्वा स्थापयिष्यामि । इत्यलम् । ॐNehalDaveND १२:०१, २१ जून २०१५ (UTC)