अपना देश (संस्था)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अपना देश
संस्थाप्रतीकम्
ध्येयवाक्यम् Change is Possible — "परिवर्तनं साध्यम्
प्रकारः असर्वकारीया सामाजिकसंस्था
न्यायिकस्थितिः सामाजिकसंस्था
उद्देश्यम् सामाजिकोन्नतिः
जालस्थानम् www.apnadesh.in

अपना देश इति एका असर्वकारीया संस्था अस्ति । इयं संस्था मुख्यतः कर्णाटकराज्यस्य ग्राम्यप्रदेशानां आर्थिक-सामाजिकोन्नतिनिमित्तं कार्यं कुर्वती अस्ति । अस्याः संस्थायाः पुरोधा अस्ति भरत् लाल् मीना महोदयः ।

उद्देशः[सम्पादयतु]

इयं संस्था उद्देशप्रणोदितैः स्वेच्छसेवकैः निर्मिता । आन्दोलनरूपेण सर्वकारस्य मान्यता प्राप्ता एतया संस्थया । अस्याः मुखोद्देशाः सन्ति-

  • स्वनिर्भर-सशक्तस्य भारतस्य निर्माणम् । यत्र च साधारणजनानां जीवनस्तरः उन्नतः भवति ।
  • साधारणग्राम्यजनानां मूलसमस्यानां परिसङ्कलनं, तासां दूरीकरणञ्च। तेषां प्राथमिकप्रयोजननां पूर्तिनिमित्तं प्रयासः ।
  • भारतीयप्राचीनसंस्कृतेः संरक्षणं प्रचारप्रसारञ्च । येन भारतीयसामाजिकानां स्वाभिमानं वर्धितं भवति ।

उपलब्धयः[सम्पादयतु]

पाठरता शिक्षिका
पाठरता शिक्षिका

आपना देश संस्थायाः बहुविधाः प्रकल्पाः सन्ति यत्र धनस्य उपयोगेन विना कार्यम् अभवत् । यथा-

  1. प्लास्टिक् वर्जितं स्थानम् ।
  2. पूर्णशिक्षितः समाजः ।
  3. शुद्धपेयजलयुक्तं स्थानम् ।

बाह्यसम्पर्काः[सम्पादयतु]

आधिकारिकं जालपुटम्

चित्रवीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अपना_देश_(संस्था)&oldid=361061" इत्यस्माद् प्रतिप्राप्तम्