सदस्यः:Karthikeshwar12345/प्रयोगपृष्ठम्
॥ श्रीदत्तात्रेय योग शास्त्र ॥ http://3.bp.blogspot.com/-8Ana7P0IlLs/T_dZ0fmywlI/AAAAAAAAAeU/Mm0zfB7J--o/s1600/BM_N418747002.jpg नृसिंहरूपिणे चिदात्मने सुखस्वरूपिणे । पदैः त्रिभिः तदादिभिः निरूपिताय वै नमः ॥ १॥
साङ्कृतिः मुनिवर्यो असौ भूतये योगलिप्सया । भुवं सर्वां परिभ्रान्यन्नैमिषारण्यमाप्तवान् ॥ २॥
सुगन्धिनानाकुसुमैः स्वादुसत्फलसंयुतैः । शाखिभिः सहितं पुण्यं जलकासारमण्डितम् ॥ ३॥
सः मुनिः विचरस्तत्र ददर्शाम्रतरोः अधः । वेदिकायां समासीनं दत्तात्रेयं महामुनिम् ॥ ४॥
बद्धपद्मासनासीनं नासाग्रार्पितया दृशा । ऊरुमध्यगतोत्तानपाणियुग्मेन शोभितम् ॥ ५॥
ततः प्रणम्याखिलं दत्तात्रेयं महामुनिम् । तत् शिष्यैः सह तत्रैव सम्मुखश्चोपविष्टवान् ॥ ६॥
तदैव सः मुनिः योगात् विरम्य स्वपुरः स्थितम् । उवाच साङ्कृतिं प्रितिपूर्वकं स्वागतं वचः ॥ ७॥
साङ्कृते कथय त्वं मां किमुद्दिश्येहागतः । इति पृष्टस्तु सः प्राह योगं ज्ञातुमिहागतः ॥ ८॥
योगो हि बहुधा ब्रह्मन्तत्सर्वं कतयामि ते । मन्त्रयोगो लयश्चैव हठयोगस्तथैव च । रजयोगश्चतुर्थः स्यात्योगानामुत्तमस्तु सः ॥ ९॥
आरम्भश्च घटश्चैव तथा परिचयः स्मृतः । निष्पत्तिश्चेत्यवस्था च चतुर्थी परिकल्पिता । एतेषां विस्तरं वक्ष्ये यदि त्वं श्रोतुमिच्छसि ॥ १०॥ http://www.shreegurudevdattamandirvakola.com/uploads/1/8/3/1/18311875/7699930_orig.jpg?109 अङ्गेषु मातृका पूर्वं मन्त्रं जपन् सुधीः । य कचनाभिसिद्धयै स्यात् मन्त्रयोगः स कथ्यते ॥ ११॥
मृदुः तस्याधिकारी स्याद्द्वादशाब्दैः तु साधनात् । प्रायेण लभते ज्ञानं सिद्धिश्चैवाणिमादिकाः ॥ १२॥
अल्पबुद्धिः इमं योगं सेवते साधकाधमः । मन्त्रयोगो ह्ययं प्रोक्तो योगानामधमस्तु सः ॥ १३॥
लययोगश्चित्तलयः सङ्केतैः तु प्रजायते । आदिनाथेन सङ्केता अष्टकोटि प्रकीर्त्तिताः ॥ १४॥
साङ्कृतिरुवाच -- भगवन्नादिनाथः सः किं रूपः कः सः उच्यताम् । दत्तात्रेय उवाच -- महादेवस्य नामान्यादिनाथादिकान्यपि । शिवेश्वरश्च देवोऽसौ लीलया व्यचरत्प्रभुः ॥ १५॥
श्रीकण्ठपर्वते गौर्या सह प्रमथनायकान् । हिमाक्षपर्वते चैवकदलीवनगोचरे ॥ १६॥
गिरिकूटे चित्रकूटे सुपादपयुते गिरौ । कृपयैकैकसङ्केतं शङ्करः प्राह तत्र तान् ॥ १७॥
तानि सर्वाणि वक्तुं तु न हि शक्नोमि विस्तरात् । कानिचित्कथयिष्यामि सहजाभ्यासवत्सुखम् ॥ १८॥
तिष्ठन् गच्छन्स्वपन्भुञ्जन्ध्यायन्शून्यमहर्निशम् । अयमेको हि सङ्केतः आदिनाथेन भाषितः ॥ १९॥
नासाग्रदृष्टिमात्रेण ह्यपरः परिकीर्तितः । शिरस्पश्चाच्च भागस्य ध्यानं मृत्युं जयेत् परम् ॥ २०॥ http://3.bp.blogspot.com/-FrWNcrd088A/VBx0_HK9ZmI/AAAAAAAAwGE/8izUJ6RmVk0/s1600/Painting-Of-DattatreyaD3R3-Jayanti-.jpg भ्रूमध्यदृष्टिमात्रेण परः सङ्केतः उच्यते । ललाते भ्रूतले यश्चोत्तमः सः प्रकीत्तितः ॥ २१॥
सव्यदक्षिणपादस्याङ्गुष्टे लयमुत्तमम् । उत्तानशववत्भूमौ शयनं चोक्तमुतमम् ॥ २२॥
शिथिलो निर्जने देशे कुर्याच्चेत्सिद्धिमाप्नुयात् । एवं च बहु सङ्केतान् कथयामास शङ्करः ॥ २३॥
सङ्केतैः बहुभिश्चान्यैः यस्य चित्तलयो भवेत् । स एव लययोगः स्यात् कर्मयोगं ततः शृणुः ॥ २४॥
यमश्च नियमश्चैवासनं च ततः परम् । प्राणायामश्चतुथः स्यात् प्रत्याहारस्तु पञ्चमः । ततस्तु धारणा प्रोक्ता ध्यानं सप्तममुच्यते ॥ २५॥
समाधिः अष्टमः प्रोक्तः सर्वपुण्यप्रदः । एवमष्टाङ्गयोगं च याज्ञवल्क्यादयो विदुः ॥ २६॥
कपिलाद्यास्तु शिष्याश्च हठं कुयुस्ततो यथा । तद्यथा च महामुद्रा महाबन्धस्तथैव च ॥ २७॥
ततः स्यात्खेचरीमुद्र बन्धो जालन्धरः तथा । उड्डियाणं मूलबन्धो विपरीतकरणी तथा ॥ २८॥
वज्रोलिः अमरोलिश्च सहजोलिस्त्रिधा मता । एतेषां लक्षणं वक्ष्ये कर्त्ताव्यं च विशेषतः ॥ २९॥
यमाः ये दशः सम्प्रोक्ताः ऋषिभिः तत्त्वदर्शिभिः । लघ्वाहारस्तु तेष्वेको मुख्यो भवति नापरे । अहिंसा नियमेष्वेका मुख्या भवति नापरे ॥ ३०॥ http://wallpaper.krishoonetwork.com/wp-content/uploads/2014/12/God-Dattatreya1.jpg चतुरशीतिलक्षेष्वासनेष्वुत्तमं शृणु । आदिनाथेन सम्प्रोक्तं यदासनमिहोच्यते ॥ ३१॥
उत्तानौ चरणौ कृत्वोरूसंस्थौ प्रयलतः । उरू मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ ३२॥
नासाग्रे विन्यसेद्राजद्दन्तमूलं च जिह्वया । उत्तभ्य चिबुकं वक्षः संस्थाप्य पवनं शनैः ॥ ३३॥
यथाशक्ति समाकृष्य पूरयेदुदरं शनैः । यथाशक्त्येव पश्चात्तु रेचयेत्पवनं शनैः ॥ ३४॥
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धिमता लभ्यते भुवि ॥ ३५॥
सांस्कृते शृणु सत्त्वस्थो योगाभ्यासक्रमं यथा । वक्ष्यमाणं प्रयत्नेन योगिनां सर्वलक्षणैः ॥ ३६॥
युव अवस्थोऽपि वृद्धो वा व्याधितो वा शनैः शनैः । अभ्यासात्सिद्धिमाप्नोति योगे सर्वोऽप्यतन्द्रितः ॥ ३७॥
ब्राह्मणः श्रमणो वा बौद्धो वाप्यार्हतोऽथवा । कापालिको वा चार्वाकः श्रद्धया सहितः सुधीः । योगाभ्यासोऽतो नित्यं सर्वसिद्धिमवाप्नुयात् ॥ ३८॥
क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण काचित्सिद्धिः प्रजायते ॥ ३९॥
मुण्डितो दण्डधारी वा काषायवसनोऽपि वा । नारायणवदो वापि जटिलो मस्मलेपनः ॥ ४०॥
नमः शिवायवाची वा बाह्यार्चा पूजकोऽपि वा । द्वादशस्थानपूजो वा बह्यवत्सलभाषितम् । क्रियाहीनोऽथवा कूरः कथं सिद्धिमवाप्नुयात् ॥ ४१॥
न वेषधारणं सिद्धेः कारणं न च तत्तथा । कृपैव कारणं सिद्धेः सत्यमेव तु साङ्कृते ॥ ४२॥
शिश्नोदरार्थं योगस्य कथया वेषधारिणः । अनुष्ठानविहीनाः तु वङ्चयन्ति जनान् किल ॥ ४३॥
उच्चावचैः विप्रलम्भैः यतन्ते कुशलाः नराः । योगिनो वयमित्येवं मूढाः भोगपरायणाः ॥ ४४॥
शनैर्तथाविधान् ज्ञात्वा योगाभ्यासविवर्जिताम् । कृतार्थान्वचनैरेव वर्जयेद्वेषधारिणः ॥ ४५॥
एते तु विघ्नभूत्तास्ते योगाभ्यासस्य सर्वदा । वर्जयेत्तान् प्रयत्नेनेदृशी सिद्ध्दा क्रिया ॥ ४६॥
प्रथमाभ्यासकाले तु प्रवेशस्तु महामुने । आलस्यं प्रथमे विघ्नः द्वितीयस्तु प्रकत्थनम् । पूर्वोक्तधूर्त्तगोष्ठी च तृतीयो मन्त्रसाधनम् ॥ ४७॥
चतुर्थो धातुवादः स्यात्पङ्चमः खाद्यवादकम् । एवं च बहवो दृष्टाः मृगतृष्णाः समाः मुनेः ॥ ४८॥
स्थिरासनस्य जायन्ते तां तु ज्ञात्वा सुधीः त्यजेत् । प्राणायामं ततस्कुर्यात्पद्मासनगतः स्वयम् ॥ ४९॥
सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्घुणम् । सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः ॥ ५०॥
http://www.exoticindiaart.com/book/details/yoga-sastra-of-dattatreya-rare-book-NAD535/
http://hatharaja.blogspot.in/2011/03/dattatreya-yoga-shastra.html
https://books.google.co.in/books/about/Yoga_Shastra_of_Dattatreya.html?id=boRxQgAACAAJ&redir_esc=y
https://openlibrary.org/books/OL2692218M/Yoga_shastra_of_Dattatreya