वृत्ताछन्दः
दिखावट
वृत्ता।
प्रतिचरणम् अक्षरसङ्ख्या ११
ननसगगुरुरचिता वृत्ता। – केदारभट्टकृतवृत्तरत्नाकर:३.४१
।।। ।।। ।।ऽ ऽऽ
न न स ग ग।
यति: चतुर्भि: सप्तभि: च।
उदाहरणम् -
यदि विगलितबलधर्म: स्याद् यदि बहुबलमपि चाधर्मे। मदवतरणसमय: पार्थ, सदवनखलदमनायायम्॥