सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/101

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जैनतीर्थानि

जैनतीर्थानि जैनधर्मस्य पवित्राणि यात्रास्थलानि, पूजास्थलानि, वीक्षणीयस्थलानि वा भवन्ति । निखिलभारते जैनतीर्थानि सन्ति । तत्र जैनधर्मानुयायिनः यात्रायै गच्छन्ति । जैनेतराः अपि दर्शनार्थं गच्छन्ति । बहुत्र जैनतीर्थङ्कराणां मन्दिराणि, पादचिह्नानि, स्मारकाणि च भवन्ति । चतुर्विंशतितीर्थङ्कराणां यत्र यत्र जन्म, निर्वाणं च अभवत्, तानि सर्वाणि स्थानानि तीर्थस्थलानि सन्ति । यत्र तीर्थङ्कराः, जैनाचार्याः च यत्र साधनां कुर्वन्ति स्म, तानि स्थलानि अपि तीर्थानि कथ्यन्ते