सामग्री पर जाएँ

सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/101

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महात्मा गान्धी

महात्मा गान्धी गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धी उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्द गान्धी राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदास गान्धी साधारणबालकः आसीत् । मोहनदास गान्धी राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।

(अधिकवाचनाय »)