अथ (अनन्तरम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अव्ययेषु अन्यतमं भवति इदम् अव्ययम् अथ इति ।

अर्थविवरणम्[सम्पादयतु]

अथ इति शब्दः नाना अर्थेषु वर्तते । यथा -

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ[१]
अर्थात् अथशब्दः मङ्गलम्, अनन्तरम्, आरम्भः, प्रश्नः, कार्त्स्न्यम् इत्येतेषु अर्थेषु प्रयुज्यते ।

उदाहरणवाक्यानि[सम्पादयतु]

  • अथातो ब्रह्मजिज्ञासा ।[२]
  • अथ शब्दानुशासनम् ।[३]
  • स्नानं कृत्वा भुञ्जीत ।
  • अथ वक्तुं समर्थस्त्वम् ?
  • अथ क्रतून् ब्रूमः ।
  • अथ स्नानविधिः ।
  • अथ इमं वेदमध्यापय अथ एनं छन्दोऽपि ।

अभियुक्तोक्तिः[सम्पादयतु]

अथशब्दविषये अभियुक्तोक्तिः काचिद्विद्यते -

ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥

अर्थात् - पुरा कदाचित् ब्रह्मणः कण्ठं भित्त्वा ॐकारः अथ इति शब्दश्च बहिरागतौ । ब्रह्मणः मुखात् बहिरागतौ इत्यस्मात् तयोः मङ्गलत्वम् ।

सन्दर्भः[सम्पादयतु]

  1. अमरकोषः ३/३/२४९
  2. (ब्रह्मसूत्रम् १/१/१)
  3. (महाभाष्यम् पस्पशाह्निकम् १/१)

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अथ_(अनन्तरम्)&oldid=395075" इत्यस्माद् प्रतिप्राप्तम्