उशनाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उशनाः
Shukra
देवनागरी शुक्र

उशनाः नाम शुक्राचार्यः । यथा अमरकोशे- शुक्रो दैत्यगुरुः काव्य उशना भर्गवः कविः

वश (कान्तौ) 'कनसिः' (उ ४-२३८)

स्वायम्भुवमन्वन्तरे भृगुमहर्षि-पुलोमयोः अष्टसु पुत्रेषु चतुर्थः अयम् । इदानीं प्रचाल्यमानस्य वैवस्वतमन्वन्तरस्य तृतीये पर्याये व्यासः आसीत् । अस्य पत्नी ऊर्जस्वतिः । पुत्री देवयानी । जगतः सम्पदः निमित्तं देवासुरयोः युद्धावसरे देवाः बृहस्पत्याचार्यम् असुराः शुक्राचार्यञ्च स्वस्य आचार्यत्वेन स्व्यकुर्वन् । अयं हिरण्यकशिपोः पुरोहितः आसीत् इति उल्लेखः उपलभ्यते । (दे भा १ ४, विष्णु ३ ३)

"https://sa.wikipedia.org/w/index.php?title=उशनाः&oldid=400750" इत्यस्माद् प्रतिप्राप्तम्