रानी रामपाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रानी रामपाल
2010 राष्ट्रमंडल खेलों में रामपाल (नीले रंग में)।
व्यक्तिगतविवरणम्
राष्ट्रियता भारतीया
नागरिकता भारतीया
वासस्थानम् शाहबाद मारकण्डा, कुरुक्षेत्रमण्डलम्,हरियाणा
उद्योगदाता भारतीय-रेलवे
क्रीडा
देशः भारतम्
क्रीडा हाकी
गणः भारतम्
प्रशिक्षकः बलदेव सिंह
Updated on २६ सितंबर २०१३.

रानी रामपाल (जन्म : ४ दिसम्बर १९९४) भारतस्य काचित् हॉकी-क्रिडालुः । सा भारतीय-हॉकी-क्रीडायाः 'राज्ञी' मन्यते ।[१][२][३] २०१० तमस्य वर्षस्य विश्वचषके भागं गृहीतेषु भारतीय-हॉकी-क्रीडापटुषु सा कनिष्ठतमा आसीत् । तस्मिन् समये तस्याः आयुः १५ वर्षाणि आसीत् ।

जीवनं, परिवारश्च[सम्पादयतु]

सा हरियाणाराज्यस्य शाहबाद मारकण्डा-नगरे निवासति । रान्याः पिता आजीविकायै रथं चालयति ।[४] परिवारस्य भ्रातृभगिनीषु रानी कनिष्ठतमा वर्तते । रान्याः दौ अग्रजौ स्तः । तस्याः उपज्षेठभात्रा कुत्रचिद् आपणसहायकत्वेन कार्यं करोति । ज्येष्ठतमः भ्राता च लोहकारः अस्ति । स्वप्रदर्शनस्य बलेन रानी रेलवे-विभागे क्लर्क-पदं प्राप्तवती । एवं सा परिवारेण सह दलस्य अपि दायित्वं स्वीकृतवती ।[५]

वृत्तिः[सम्पादयतु]

रानी कदात् चतुर्भ्यः वर्षेभ्यः पूर्वं यदा सा चतुर्दशवर्षीया आसीत्, तदा प्रप्रथमम् अन्ताराष्ट्रियस्पर्धायां भागम् अवहत् । ततः २०१० तमे वर्षे पञ्चदशवर्षीया सा महिला-विश्व-चषकस्पर्धायां युवक्रीडालुः अभवत् ।[१] २००९ तमे वर्षे जम्बूद्वीपचषकस्पर्धायां भारतं होकी-क्रीडायां रजतपदकं प्रापत्, तस्यां स्पर्धायां तस्याः महत्त्वपूर्णं योगदानम् आसीत् । सा २०१० तमस्य वर्षस्य राष्ट्रमण्डलक्रीडायां, २०१० तमस्य वर्षस्य जम्बूद्वीपीयक्रीडायाः भागः आसीत् [३]

२०१३ तमे वर्षे कनिष्ठमहिला-हॉकी-दलं कांस्यपदकं प्रापत् । विश्वचषक-हॉकी-प्रतिस्पर्धायां तत् पदकं भारतं  ३८ वर्षेभ्यः अनन्तरं प्रापत् । तस्य विजयस्य श्रेयः रानी रामपाल, मनजित कौर इत्येताभ्यां गच्छति । सा सामान्यतः सेन्टर् फोर्वड्-स्थाने क्रीडति ।

उपलब्धयः[सम्पादयतु]

  • जूनियर-हॉकी-विश्व-कप २०१३ - प्लेयर ऑफ द टूर्नामेंट
  • २०१० तमे वर्षे १५ वर्षीया सा महिला-विश्व-चषके कनिष्ठतमा क्रीडालुः अभवत् ।
  • रॉजारियो (अर्जेंटीना) मध्ये महिला-हॉकी-विश्वचषके सा सप्तवारं 'गोल' कृत्वा सर्वश्रेष्ठयुव-फॉरवर्ड इति उपाधिं प्राप्तवती ।
  • कनिष्ठविश्वचषके ३८ वर्षेभ्यः अनन्तरं भारतस्य विजयकारणम् अभवत् सा ।
  • ‘यंग प्लेयर ऑफ द टूर्नामेंट’[६]

सन्दर्भ[सम्पादयतु]

  1. १.० १.१ "मुफ़लिसी ने सिखाई हॉकी की जादूगरी". बीबीसी हिन्दी. 5 अगस्त 2013. आह्रियत 24 सितम्बर 2013. 
  2. "रानी रामपाल ने हालात को दी मात, बनीं हॉकी की रानी". एबीपी न्यूज़. 6 अगस्त 2013. आह्रियत 24 सितम्बर 2013. 
  3. ३.० ३.१ "हॉकी की "रानी" ने रची नई कहानी". पत्रिका डॉट कॉम. 8 अगस्त 2013. आह्रियत 24 सितम्बर 2013. 
  4. मलय (6 अगस्त 2013). "जूनियर महिला विश्‍व कप हॉकी में ठेलागाड़ी चलाने वाले की बेटी ने किया कमाल". आजतक. आह्रियत 24 सितम्बर 2013. 
  5. "पढ़ें: हॉकी के लिए रानी के संघर्ष की कहानी". आईबीएन ७. 6 अगस्त 2013. Archived from the original on 2013-09-27. आह्रियत 24 सितम्बर 2013. 
  6. "महिला हॉकी- रानी ‘यंग प्लेयर ऑफ द टूर्नामेंट’ बनीं". बेंगलुरु: सीएनबीसी आवाज़. 16 सितम्बर 2010. आह्रियत 24 सितम्बर 2013.  Unknown parameter |source= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=रानी_रामपाल&oldid=480874" इत्यस्माद् प्रतिप्राप्तम्