अनन्ताचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अनन्ताचार्यः

अनन्ताचार्य-नामा मनीषी काश्यां जनि प्रापेति। अयं हि वैदिकविद्वान् माध्ववैष्णवः अासीत् । षोडशशतकोत्तरार्द्धमस्य विदुषः कालो निश्चितः । अनेन काण्वसंहितायारुत्तरार्द्धोपरि (एकविंशत्यध्यायादारभ्य चत्वारिंशदध्यायपर्यन्तम् ) स्वभाष्यं रचितम्। अस्य भाष्योपरि महीधरभाष्यस्य स्पष्टतश्च्छाया प्रतीता भवति । फलतः तस्मादुत्तरकालिकोऽयं भाष्यकार इति निश्चीयते । स्थाने स्थाने मन्त्राणां विष्णुपरकार्थः कृतोऽनेन विदुषा । सम्प्रदायानुसारीयं व्याख्या अस्य पाण्डित्यस्य पुराणज्ञतायाश्च विशेषद्योतिका विद्यते । शुक्लयजुर्वेदप्रातिशाख्यस्य अप्येकां टीकाम् अयं निरमात् ।

"https://sa.wikipedia.org/w/index.php?title=अनन्ताचार्यः&oldid=473879" इत्यस्माद् प्रतिप्राप्तम्