अगस्ट् वीस्मान्
आगस्ट् वीस्मान् | |
---|---|
जननम् |
जनवरि १७ दिनाङ्क: , क्रैस्तपर: १८३४ तमवर्ष: फ़्रङ्क्फ़र्ट् अम् मैन् |
मरणम् |
नवम्बर् ५ , १९१४ तमवर्ष: (अशीतिवयस्क: ) फ़्रेय्बर्ग् |
विषयेषु प्रसिद्धः | जर्म् प्लास्म् थियरी |
अयम् अगस्ट् वीस्मान् (August weismann) प्रजननद्रव्यसिद्धान्तस्य प्रतिपादकः । एषः जर्मन्-देशस्य फ्राङ्क्फर्ट् आन्मैन्प्रदेशे १८३४ तमे वर्षे जनवरिमासस्य १७ दिनाङ्के जन्म प्राप्नोत् । एषः अगस्ट् वीस्मान् बाल्यादारभ्य अपि प्रकृति-इतिहासे आसक्तः आसीत् । एषः १८५६ तमे वर्षे वैद्यपदवीं प्राप्नोत् । अनन्तरं किञ्चित् कालं यावत् ग्रीस्-देशस्य प्रसिद्धस्य वैद्यस्य ल्यूकार्टस्य समीपे कार्यम् अकरोत् । १८६६ तमे वर्षे फ्रीबर्ग्-विश्वविद्यालये प्राणिविज्ञानस्य विभागे प्राध्यापकरूपेण नियुक्तः अभवत् । तत्र सः अगस्ट् वीस्मान् कीटानां भ्रूणविज्ञानस्य संशोधने निरतः जातः । तस्य मध्यवयसि नेत्रदोषः तीव्रः जातः इति कारणतः सूक्ष्मदर्शकस्य उपयोगकरणं न शक्यते स्म । तेन सः प्रयोगान् कर्तुम् अशक्तः । तदनन्तरं सः प्रयोगान् परित्यज्य सिद्धान्तस्य मार्गम् अनुसृतवान् ।
एषः अगस्ट् वीस्मान् विश्वे एव आनुवंशिकतायां स्वार्जितानां गुणानां विषये संशोधनं कृतवान् प्रथमः विज्ञानी । सः एव गुणाः आनुवंशिकरूपेण एकस्याः वंशश्रेणीतः अन्यां वंशश्रेणीं प्रति गच्छन्ति इति प्रादर्शयत् । तदर्थं प्रजननद्रव्यम् (जेर्म्प्लासम्) एव कारणम् इत्यपि ज्ञापयत् । प्रजननद्रव्यं लिङ्गकोशयुक्तं भवति । पितृपितामहादिभिः स्वयं कृताः अभ्यासाः अग्रिमां वंशश्रेणीं न गच्छन्ति । तरणकर्तुः पुत्रः तरणविद्यां सुलभतया प्राप्नोति इति नास्ति । तथैव प्रयत्नेन सम्पादितं किमपि कौशलम् अग्रिमां वंशश्रेणीं तथैव गच्छति इति नास्ति इति संशोधितवान् । एवम् अगस्ट् वीस्मान् १८७० तः १८८८० अवधौ स्वीयं विकासवादं निरूपयत् । यथा सूक्ष्माणवः मरणं न प्राप्नुवन्ति । ते दीर्घकालं यावत् जीवन्ति । तथैव उच्चस्तरीयेषु जीविषु अपि भवति । जीवः कुत्रापि अतिष्ठन् अग्रे सरति । तस्य आरभः अण्डम् अथवा वीर्याणुः इत्यपि संशोधनम् अकरोत् । भूमौ यदा आरम्भः अभवत् तदारभ्य अपि जीवस्य अग्रे सरणक्रिया निरन्तरं प्रचलति । एताम् एव प्रक्रियां सः "प्रजननद्रव्यस्य निरन्तरं प्रवहनम्” इति अवदत् ।
अयम् अगस्ट् वीस्मान् जीवस्य अग्रे सरणाय, गुणलक्षणानाम् अग्रे गमनाय जीवकोशस्य कोशकेन्द्रे विद्यमानाः वर्णतन्तवः (क्रोमोसोम्स्) एव कारणीभूताः । कोशविभजनं निर्दिष्टेन क्रमेण एव प्रचलति । अतः एव गुणाणवः (जीन्स्) एकस्याः वंशश्रेणीतः अन्यां वंशश्रेणीं प्रति गच्छन्ति । लिङ्गकोशे अर्धभागं यावत् जननवस्तु भवति । यदा गर्भाङ्कुरः भवति तदा लिङ्गकोशं पूर्णं भवति । मनुष्यस्य शरीरं जननद्रव्यस्य संरक्षणविधानं केवलम् । तत् अन्यं कमपि प्रभावं न जनयति इत्यादीन् अंशान् संशोधनद्वारा एव निरूपितवान् । तदर्थं सः २२ वंशश्रेणीनां १५९२ मूषकाणां पुच्छं कर्तितवान् । अनन्तरं जातस्य अपि मूषकस्य अपि पुच्छम् आसीत् एव । अनेन प्रयोगेण सः स्वयम् अर्जिताः अभ्यासाः अग्रिमां वंशश्रेणीं न गच्छन्ति इति निरूपितवान् । अयम् अगस्ट् वीस्मान् १९१४ तमे वर्षे नवेम्बरमासस्य ६ दिनाङ्ग्के इहलोकम् अत्यजत् ।