अग्निहोत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अग्निहोत्रम्
अग्निहोत्रम्

अग्निहोत्रं ( /ˈəɡnɪhtrəm/) (हिन्दी: अग्निहोत्र, आङ्ग्ल: Altar) नाम किम् ? इत्ययं प्रश्नः सहजतया उदेति अस्माकं मनसि । लघुतले विशालमुखे शड्क्वाकारके ताम्रपात्रे पुरीषं निधाय अग्निं प्रज्वाल्य द्विमुष्टिमितान् अखण्डतण्डुलान्, समिधः, आज्यं च मन्त्रपुरस्सरं प्रातः सन्ध्याकाले सायंसन्ध्याकाले च अग्नये समर्पणम् एव अग्निहोत्रं नाम । आज्यकारीषादिकं गोसम्बन्धि स्यात्, तण्डुलकणाः अक्षताः स्युः, सन्ध्याकालः अन्यूनातिरिक्ततया अनुसरणीयः, यज्ञपात्रं ताम्रमयं शङ्क्वाकारकम् एव स्यात्, औदुम्बर-वट-पिप्पल-पलाशादिषु अन्यतमाः समिधः स्युः - इत्यादयः केचन नियमाः सन्ति अग्निहोत्रस्य । किन्तु एतस्य आचरणे नास्ति वयोलिङ्ग-जात्यादिभेदाः । तन्नाम यः कोऽपि अग्निहोत्रस्य आचरणं कर्तुम् अर्हति ।

एतत् अग्निहोत्रम् इदानीं भारते सर्वत्र अस्ति, विदेशेषु अपि अस्ति । चिलि, पोलेण्ड्, अमेरिका, जर्मनी इत्यादिषु देशेषु तत् व्यापकतया प्रसृतम् अस्ति । अमेरिकादेशस्य श्वेतभवनात् अनतिदूरे मेरिल्याण्ड्प्रदेशे बाल्टिमोर्प्रदेशे च विंशत्यधिकवर्षेभ्यः अग्निहोत्रकार्यकर्माणि निरन्तरं प्रचलन्ति । एतत् प्रदेशद्वयम् 'अग्निहोत्र प्रेस् फामर्’नाम्ना प्रसिद्धम् अस्ति । वाशिङ्ग्टन्नगरे 'अग्निहोत्रविश्वविद्यालयः’ एव स्थापितः अस्ति । चिलिदेशे अण्डोस्पर्वते कश्चन अग्निदेवालयः अस्ति । तत्र प्रतिदिनम् अनेके जनाः गत्वा अग्निपूजां कुर्वन्ति । तत्रत्यजनानां विश्वासः अस्ति यत् एतस्मिन् परिसरे कानिचित् दिनानि वासः कृतः चेत् व्याधिमुक्तता प्राप्यते इति । तत्र वासहेतो व्याधिमुक्ततां प्राप्तवन्तः सन्ति बहवः । गतशतकस्य अष्टमे दशके यदा प्राणहानिकारकः महान् हिमपातः (ग्त्तृथदतज्ञण) जातः तदा अग्निहोत्रोपासकाः क्षतिग्रस्ताः न जाताः । अन्ये सर्वे हिमपाततः महतीं पीडाम् अनुभूतवन्तः ।

एवम् अग्निहोत्रं सर्वत्र प्रसृतं प्रसरत् च अस्ति । अग्निहोत्रम् अवलम्ब्य बहुभिः बहुधा प्रयोगाः अपि कृताः, यस्य च परिणामतः अग्निहोत्रस्य विविधाः लाभाः प्रमाणसिद्धाः जाताः ।

प्रज्वाल्यमानः अग्निः

परिणामः[सम्पादयतु]

  • पश्चिमजर्मनीदेशे मरणाभिमुखे अरण्ये कदाचित् (1985) मासत्रयात्मकः प्रयोगः कृतः । अग्निहोत्रभस्मनः योजनतः मरणोन्मुखाः बहवः वृक्षाः पल्लविताः जाताः ।
  • देहलीनगरस्थः प्राण्यौषधसंशोधनालयः मनःशरीरयोः विषये मन्त्राणां प्रभावम् अधिकृत्य संशोधनम् अकरोत् । अष्टजनान् चित्वा तया संस्थया प्रयोगः कृतः । ततः प्रमाणितं जातं यत् अग्निहोत्रसमये उच्चार्यमाणः मन्त्रः हृदयकम्पने, रक्तवेगे च न्यूनतां परिकल्पयति इति सिद्धम् । तया संस्थया अॐउ यन्त्रस्य साहाय्येन अयं प्रयोगः अनुष्ठितः आसीत् ।
  • भारतसेनायाः केचन वैद्याः मादकद्रव्यव्यसनग्रस्तान् अनेकान् अग्निहोत्रेण व्यसनमुक्तान् विहितवन्तः ।
  • पुणेनगरीया द्राक्षासंवर्धनसंस्था डा बि. जि. भुजबलस्य नेतृत्वे द्राक्षालतासु अग्निहोत्रभस्म योजयित्वा प्रयोगान् अकरोत् । ततः आधिक्येन फलप्राप्तिः फलानां गुणस्तरस्य च वर्धनं प्रयोक्तृभिः प्राधान्येन लक्षितम् ।
  • जर्मनीदेशीयाः औषधसंशोधकाः वदन्ति यत् पार्श्वशिरोवेदना, चर्मविकारः, श्वासरोगः, दग्धव्रणः इत्यादयः अग्निहोत्रेण निवारयितुं शक्याः इति ।
  • मुम्बयीनगरीस्थः डा अरबिन्दमोण्डकरः (पेथालजिस्ट्, पि. एच्. डि) 1982 तमे वर्षे 'वातावरणे अग्निहोत्रस्य परिणामः’ इत्येतं विषयम् अधिकृत्य संशोधनात्मकप्रयोगं कृतवान् । समानाकारेषु प्रकोष्ठेषु रोगाणुयुक्ताः काचकस्थालिकाः संस्थाप्य अग्निहोत्रप्रयोगः कृतः । अग्निहोत्रविधिः यस्मिन् प्रकोष्ठे कृतः तत्र 91.4% रोगाणवः विनष्टाः आसन् ।

पामादिचर्मव्याधिविषये अपि तेन अग्निहोत्रभस्मलेपनप्रयोगः कृतः । सामान्यौषध-लेपनेन यस्य निवारणार्थं 5-6 सप्ताहाः अपेक्ष्यन्ते तस्यैव निवारणं सप्ताहत्रये जातम् अग्निहोत्रभस्मलेपनेन । एतस्य भस्मनः विविधाः औषधीयगुणाः तेन अन्विष्टाः सन्ति ।

  • कानपुरीयः चन्द्रशेखर-आझाद-कृषिविद्यालयीयः डा बि. आर्. गुप्तः (सूक्ष्मजीविशास्त्रज्ञः) गोष्ठ-सामान्यगृह - अग्निहोत्रगृहेषु परिशीलनप्रयोगान् कृत्वा निर्णीतवान् यत् अग्निहोत्रं यत्र प्रवर्तते तत्र कीटादिबाधाः अत्यल्पाः इति । एतादृशाः अनेके प्रयोगाः प्रमाणीकुर्वन्ति यत् जीवशक्तिविज्ञानम्, मन्त्रविज्ञानम्, आयुर्वेदविज्ञानम्, मनश्शास्त्रविज्ञानम् इत्येतादृशानि वैज्ञानिक-मूलतत्त्वानि च आधारीकृत्य अग्निहोत्रं प्रवर्तते इति । अतः एव एतत् मानवस्य सर्वविध-विकासाय परिपूर्णं सुलभं च साधनम् इति उच्यते ।

अग्निहोत्रे प्राधान्येन अखण्डतण्डुलाः, गोघृतं, गोपुरीषं च उपयुज्यन्ते । प्राचीनकालात् भारतीयसंस्कृतौ गोमयस्य अनेके उपयोगाः आसन् । गोकारीषे गोघृते च अतिनीलकिरणानां प्रतिबन्धकशक्तिः भवति । अग्निहोत्रे उपयुज्यमानं ताम्रपात्रम् अपि विशिष्टपरिणामान् जनयति । ताम्रं सूक्ष्मविद्युत्तरङ्गाणाम् अत्युत्तमं वाहकम् । तत् स्वास्थ्यकारकं, मनश्शान्ति-दायकं, सूक्ष्मकिरणप्रसारकं च ।

आप्राचीनकालात् प्रपञ्चे सर्वत्र अग्निः दैवतरूपेण परिगण्यते । भारते अपि सः प्रत्यक्ष-देवतात्वेन एव परिगणितः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अग्निहोत्रम्&oldid=484414" इत्यस्माद् प्रतिप्राप्तम्