कानपुरम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(कानपुर इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
कानपुरम्
कांनपुरम्
—  महानगरपालिका  —
वामतः दक्षिणं प्रति: ग्रीन् पार्क् स्टेडियम्; चिविल् लैन्स् मण्डलम्; कानपुरपोलिस् हेड् क्वार्टर्स्; ल्याण्ड् मार्क् वसतिगृहम्; मेमोरियल् चर्च्; जेके मन्दिरम्
उपनाम(नि): "भारतस्य चर्मनगरी";
कानपुरम् is located in उत्तरप्रदेशः
कानपुरम्
Coordinates: 26°27′39″N 80°20′00″E / 26.460738°N 80.333405°E / 26.460738; 80.333405Coordinates: 26°27′39″N 80°20′00″E / 26.460738°N 80.333405°E / 26.460738; 80.333405
देशः भारतम्
राज्यम् उत्तरप्रदेशः
वलयः अवध
लोवर् दोवब्
मण्डलम् कानपुरनगरमण्डलम्
सर्वकारः
 • Mayor Shri Jagatvir Singh Drona
विस्तीर्णम्
 • महानगरपालिका ४५० किमी (१७३.७ वर्ग मी)
औन्नत्यम् १२६ मी (४१३ फिट)
जनसङ्ख्या (2011)
 • महानगरपालिका २७,६७,०३१
 • श्रेणी 11th
 • महानगरम् २९,२०,०६७
भाषाः
 • अधिकृताः हिन्दी, आङ्ग्लम्, अवधी, उर्दु
IST (UTC+5:30)
पिन् 208 0xx
 • 209 2xx
  • 209 3xx
  • 209 4xx
Telephone code 0512
वाहनपञ्जीकरणम् UP-78,UP-77
Coastline 0 किलोमीटर (0 मील)
Sex ratio 0.842 /
Literacy 84.14%
Distance from New Delhi 408 किलोमीटर (254 मील) NW (land)
Distance from मुम्बयी 1,288 किलोमीटर (800 मील) SW (land)
Distance from चेन्नै 1,925 किलोमीटर (1,196 मील) SE (land)
Distance from कोलकाता 1,100 किलोमीटर (680 मील) (land)
Climate Cfa (Köppen)
Precipitation 980 मिलीमीटर (39 इंच)
Avg. annual temperature 22.0 °से (71.6 °फ़ै)
Avg. summer temperature 48.7 °से (119.7 °फ़ै)
Avg. winter temperature 7 °से (45 °फ़ै)
जालस्थानम् www.kanpurnagar.nic.in


भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति कानपुरनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कानपुरम्।

कानपुर उत्तरप्रदेशस्य औद्यमिकराजधानी अस्ति । कानपुरनगरमण्डलस्य, कानपुरदेहात्मण्डलस्य, कानपुरविभागस्य च निर्वाहककेन्द्रमस्ति इदं नगरम् । भारतस्य जनपूर्णराज्येषु एकादशे स्थाने वर्तते इदम् । उत्तरप्रदेशस्य प्रमुख-औद्यमिककेन्द्रेषु अन्यतमम् । उत्तरभारत्स्य पुरातन-औद्यमिककेन्द्रमस्ति । अस्य विस्तारः अस्ति १६४० च कि मीटर्मितः । नगरविस्तारः ८२९ च कि मी मितः । जनसङ्ख्या ३०,००,००० स्यात् । निर्वहणदृष्ट्या इदं नगरं षट्धा विभक्तमस्ति, ११० लघुभागाः सन्ति । एकैकत्र १९००० तः २६००० जनसङ्ख्या स्यात् । कानपुरनगरवर्धनयोजना दूरदृष्टियुता उत्कृष्टा च वर्तते ।

इतिहासः[सम्पादयतु]

सचेण्डिराज्यस्य चण्डेलावंशजाः कानपुरनगरं संस्थापितवन्तः इति विश्वस्यते । इदं नाम 'कन्हियापुर'तः (हिन्दिभाषया अर्थः - कन्हय्यस्य नगरम्) आगतम् । ब्रिटीशानां काले इदं खान्पुरम् इति जातम् । अन्ये विश्वसन्ति यत् इदं नाम कर्णपुरात् (महाभारतस्य कर्णस्य पुरम्) आगतम् इति ।

स्थलस्य प्राचीनेतिहासः[सम्पादयतु]

१३ शतकं यावत् कानपुरस्य वर्धनविषयः अस्पष्टः । कानपुरस्य नाम न श्रूयते चेदपि तस्य द्वयोः उपनगरयोः - जैमौ, बितूर्-इत्येतयोः विषयः श्रूयते । बितूर् कानपुर ऐऐटि महाविद्यालयतः १० कि मी दूरे विद्यते । जैमौ नगरात् पूर्वदिशि ८ कि मी दूरे विद्यते । हिन्दुपुराणेषु उच्यते यत् ब्रह्माण्डस्य सृष्टेः अनन्तरं ब्रह्म बितूर्प्रदेशे अश्वमेधयागम् आचरितवान् । लिङ्गस्य प्रतिष्ठापनं कृतवान् च । वाल्मीकि-आश्रमः अपि अत्र विद्यते यत्र ऋषिः वाल्मीकिः संस्कृतमहाकाव्यं रामायणम् अरचयत् । रामेण परित्यक्ता सीता अस्मिन् आश्रमे एव स्थित्वा यमलपुत्रयोः लवकुशयोः पालनं कृतवती । जैमौप्रदेशे प्राचीनदुर्गस्य अवशेषाः दृश्यन्ते । सध्यःकालीनानि पुरातत्त्वगवेषणानि सूचयन्ति यत् इदम् अतीव पुरातनम् । वैदिककालीनं स्यात् । चन्द्रवंशस्य राज्ञः ययातेः दुर्गमिदम् इति ऊह्यते । कानपुरस्य केन्द्ररैल्वेनिःस्थानकतः २० कि मी दूरे शिवराजपुरे किञ्चन प्राचीनं मन्दिरं वर्तते । इदं चण्डेलराजेन सतिप्रसादेन स्वस्य राज्ञ्याः स्मरणार्थं निर्मितम् अस्ति । इदं रात्रिकाले निर्मितम् अस्ति, गङ्गानद्याः तटे वर्तते । इदं मन्दिरं स्वस्यशिल्पकलावैभवाय प्रसिद्धम् अस्ति । मुघलयुगस्य आरम्भात् पूर्वं कनौजस्य परिहारराजाः बहुकालं यावत् अस्य शासनं कृतवन्तः स्युः । ऐतिहासिकांशाः सूचयन्ति यत् प्रतिहारराजः मिहिरभोजः कानपुरे शासनम् अकरोत् यतः कनौज् परिहारस्य राजधानी आसीत् ।

अधिवासभूमेः स्थापनम्[सम्पादयतु]

१२०७ तमे वर्षे प्रयागस्य राजा कान्तिदेवः (कनौज्साम्राज्याधिपतिः) कोनाग्रामं स्थापितवान् । अयमेव अग्रे कानपुरं जातम् । हर्षवर्धनः, मिहिरभोजः, जैचन्दः इत्यादीनां काले अपि कानपुरस्य कनौजेन सह सम्पर्कः आसीदेव । शेर्शाहस्य शासनावधौ १५७९ तमे वर्षे कानपुरस्य प्रथमः उल्लेखः दृश्यते । १८ शतकस्य आदिमार्धभागपर्यन्तं कानपुरं नगण्यग्रामः आसीत् । १७६५ तमस्य वर्षस्य मेमासे औधस्य शासकः शुजाउद्दौलः जैमौप्रदेशे ब्रिटीश्जनैः पराजितः जातः । १७७३तः १८०१ पर्यन्तं इदम् औध्-साम्राज्यस्य आधीन्ये आसीत्, ततः ब्रिटीशजनानाम् अधीनं गतम् । एतावता ब्रिटिशजनैः कानपुरस्य प्रेक्षणीयतायाः महत्त्वम् अवगतम् । युरोपियन्-वणिजाः कानपुरे स्वस्य अस्तित्वं दृढीकृतवन्तः आसन् एतावता । स्वस्य सम्पतीनां रक्षणाय एते 'औध्-स्थानीयसेनां' १७७८ तमे वर्षे अत्र व्यवस्थापितवन्तः । १८०१ तमे वर्षे औधस्य शासकेन नवाब्सादतेन कानपुरं ब्रिटीशसाम्राज्याय प्रदत्तम् । अग्रे कानपुरं ब्रिटीश्भारतस्य प्रमुखेषु सेनास्थानेषु अन्यतमं जातम् । १८०३ तमस्य वर्षस्य मार्च्मासस्य २४ तमे दिनाङ्के इदं मण्डलत्वेन घोषितम् । १८४७ तमे वर्षे कम्पनिभाग् संस्थापितम् । १८५४ तमे वर्षे गङ्गाकुल्या विनिर्मिता । अमूलैः वस्तुभिः युक्तः कानपुरसङ्ग्रहालयः १९९९ तमे वर्षे फूल्भाग्मैदानस्थे के इ एम् सभाङ्गणे विद्यते । १९ शतके कानपुरं ब्रिटीशसेनानिवासः आसीत् यत्र ७००० सैनिकाः आसन् ।

औद्यमिकप्रगतिः[सम्पादयतु]

१८५७ तमस्य वर्षस्य अनन्तरं कानपुरं चर्म-वस्त्रोद्यमयोः प्रमुखं केन्द्रं जातम् । १८६० तमे वर्षे सैन्याय चर्मवस्तूनाम् आपूर्त्यै सर्वकारीयः यन्त्रागारः आरब्धः । ततः १८८० तमे वर्षे कापर्-अलेन्-यन्त्रागारः आरब्धः । प्रथमकार्पासवस्त्रनिर्माणी, दि एल्गिन् मिल्स् १८६२ तमे वर्षे, मूर्-मिल्स् १८८२ तमे वर्षे च आरब्धा । अग्रिमेषु ४० वर्षेषु बहवः अन्ये यन्त्रागाराश्च आरब्धाः यस्मात् कानपुरं किञ्चन प्रमुखं वस्त्रोद्यमकेन्द्रं जातम् । कानपुरस्य दि एल्गिन् मिल्स् खाखिवस्त्राय प्रसिद्धम् । इदं वस्त्रं स्वस्य वर्णाय स्थायित्वाय च प्रसिद्धमस्ति । अस्य निर्माणकर्ता वस्त्रनिर्माणे प्रसिद्धः श्री गोपालसदाशिवगोगटेवर्यः यः १९४२ तमे वर्षे डिसेम्बर्मासस्य १७ दिनाङ्के दिवङ्गतः । भारतस्य चर्मोद्यमस्य केन्द्रमस्ति कानपुरम् । अद्यत्वे तत्र बहवः चर्मोद्यमकेन्द्राणि विद्यन्ते । फेनकम्, आहारसंस्करणं, पान्मसाल (तमाखुः), चायचूर्णाचयः, प्लास्टिक्-उद्यमः, आभरणनिर्माण्म्, चर्मोद्यमः इत्यादयः नगरे नूतनतया आरब्धाः उद्यमाः । तेषु पान्मसाला-उद्यमः अत्यधिकेभ्यः उद्योगदाने अग्रे अस्ति । सर्वकाराय करदाने अपि अग्रेसरः । 'पान् वहार्' 'पान् पराग्' इत्येतादृशाः प्रसिद्धाः विविधताः अस्मिन् नगरे एव उगमं प्राप्तवन्तः ।

संस्कृतिः[सम्पादयतु]

गङ्गानद्याः तटे स्थितं कानपुरम् उत्तरभारतस्य प्रमुखम् उद्यमक्षेत्रमस्ति । तस्य ऐतिहासिक-धार्मिक-वाणिज्यिकमहत्त्वं विद्यते । १९००-१९५० तमेषु वर्षेषु कानपुरं स्वातन्त्रसङ्ग्रामस्य साहित्यान्दोलनस्य च मुख्यभूमिः आसीत् । कवेः बालकृष्णशर्म / नवीनस्य नाम्ना प्रसिद्धं वाणीज्यकेन्द्रं नामाङ्कितम् अस्ति । अग्रे गोपालदासनीरजेन लिखितानि पद्यानि हिन्दिचलच्चित्रेषु योजितवन्तः । स्यामलगुप्तपर्शदः (विजयी विश्व तिरङ्गाप्यारा -प्रसिद्धगीतस्य रचयिता) जन्मस्थानमस्ति कानपुरम् । आचार्य महावीरप्रसादद्विवेदी, गणेशशङ्करविद्यार्थी, प्रतापनरैन्मिश्र, आचार्य गयाप्रसाद शूक्ल इत्यादयः लेखकाः अत्रत्याः । कृषिविश्वविद्यालयः क्रान्तिकारिणः चन्द्रशेखराझादस्य नाम्ना निर्दिश्यते । वैद्यमहाविद्यालयः गणेशशङ्करविद्यार्थी इति नामाङ्कितम् । एतौ उभौ अपि कानपुरे बहु समयम् अयापयताम् । चन्द्रशेखराझादः अलहाबादे आल्फ्रड्-उद्याने ब्रिटीश्सैनिकैः सह आवृत्तः सन् स्वयं गुलिकास्त्रेण स्वयम् आत्मानं हतवान् । गणेशशङ्करविद्यार्थी १९३१ तमे वर्षे कानपुरस्थे मचलिबझारप्रदेशे हिन्दु-यवनकोलाहलावसरे हतः जातः ।

बितूर् (ब्रह्मावर्त) कानपुरतः २५ कि मी दूरे विद्यते । अयोध्यातः रामेण परित्यक्ता सीता अत्रत्ये वाल्मीकि-आश्रमे एव आश्रयं प्राप्य लवकुशौ प्रसूतवती । अन्ते अत्रैव भूमौ अन्तर्धाना जाता । ब्रिटीश्जनाः कानपुरं यदा आक्रान्तवन्तः तदा नानासाहेबः अत्रत्ये दुर्गे आश्रयं प्राप्तवान्, इदमपि अत्र प्रेक्षणीयेषु स्थलेषु अन्यतमम् । गङ्गातीरे विद्यमानं बितूर् अद्यत्वे प्रमुखं प्रेक्षणीयस्थलं जातमस्ति । कानपुरं महता प्रमाणेन वर्धमानमस्ति वसतिसमुच्चयानां स्थापनेन । उत्सवेषु गङ्गामेला अतिविशिष्टं वर्तते । कानपुरे प्रचाल्यमानः अयम् उत्सवः होलीपर्वणः अनन्तरं पञ्चमे दिने आचर्यते । गङ्गास्नानतः पूर्वं सर्वे परस्परं वर्णक्षेपणपूर्वकम् आनन्देन क्रीडन्ति । सङ्गीत-नृत्य-काव्यवाचनादयः कार्यक्रमाः सायङ्काले आचर्यन्ते ।

भूगोलम्[सम्पादयतु]

नगरमिदं २६.४६७० उत्तरदिशि ८०.३५००पूर्वदिशि च वर्तते । उत्तरप्रदेशः पुरातन-कान्पुरग्राममण्डलतः 'कानपुरदेहात्' इति नामकं मण्डलम् आरचयत् । कानपुर्, अलहाबाद्, फतेपुर् च पुरातनकाले वत्सदेशः इति निर्दिश्यते स्म । इदं प्रमुखनदीद्वयेन युक्ता अस्ति - गङ्गा ईशान्ये, यमुना दक्षिणे च प्रवहतः । कानपुरं परितः दक्षिणे हमीरपुरम्, ईशान्ये उन्नाव् च विद्यते । कानपुरस्य दक्षिणभागे बण्डेल्खण्ड्नामकं शुष्कप्रदेशः विद्यते । कानपुरमण्डलं कानपुरदेहात्मण्डलञ्च गङ्गायमुनानद्योः उर्वरप्रदेशे विद्यते । यमुनानदी अवध-बुन्देल्खण्डप्रदेशयोः सीमाम् अङ्कयति । स्वच्छपानजलस्य व्यवस्था विद्यते अत्र । कृषिकार्यार्थमपि जलव्यवस्था समीचीनतया कृता वर्तते ।

वातारणम्[सम्पादयतु]

कानपुरम् आर्द्र्-उष्णविभाग-वातावरणयुक्तं देहल्याः इव । कानपुरे दीर्घः घर्मकालः, ह्रस्वः शीतकालः, धूलियुतः चण्डमारुतः, वर्षमारुतश्च विद्यते । विपरीततापमानाः अत्र दृश्यन्ते । कनिष्ठं ० सेण्टिग्रेड्मितं भवति शैत्यकाले, ग्रीष्मकाले ४८ सेण्टिग्रेड्मितं यावत् अधिकं भविष्यति । डिसेम्बर्-जनवरिमासयोः कानपुरे महाती धूमिका (fog) भविष्यति येन वाहनसम्मर्दः, यात्राविलम्बः भविष्यति । कानपुरस्य दर्शनम् अक्टोबर्-नवम्बर्मासयोः अथवा फेब्रवरि-मार्च्मासयोः समीचीनं भवेत् । वार्षिकवृष्टिः ८८५ मि मीटर्मितं भवति सामान्यतः ।

सस्य-प्राणिसम्पत्तिः[सम्पादयतु]

अत्रैव निवसतां देशान्तरगमनं कुर्वतां बहूनां पक्षिणां स्थानमस्ति कानपुरम् । बितूर्, ऐ ऐ टि कानपुरपरिसरे, गङ्गायाः तीरप्रदेशेषु च ते दृश्यन्ते अधिकतया । मयूराः नीलवृषभाः (nilgai) च अधिकतया दृश्यन्ते । एशियाखण्डस्य बृहत्तमं (विस्तारे) प्राणिशास्त्रोद्यानम् अत्र विद्यते । कानपुरप्राणिसङ्ग्रहालयः स्वस्य पञ्जरविन्यासाय प्रसिद्धः अस्ति यत्र प्राणिनः सहजतया जीवितुम् अर्हन्ति । बहुविधाः प्राणिनः अपि सन्ति । जलव्यवस्था अपि विशिष्टतया कृतमस्ति ।

जनसङ्ख्याविवरणम्[सम्पादयतु]

२७,००,००० जनसङ्ख्यायुते कानपुरे जनाः अधिकतया उत्तरप्रदेशस्य केन्द्रभागतः पश्चिमभागतः च आगताः । बेङ्गाली, पञ्जाबी, आङ्ग्लो-भारतीयाः च अधिकसङ्ख्याकाः सन्ति स्वरूपनगरे, तिलकनगरे, आझादनगरे च । हिन्दवः ७६%, यवनाः १६%, सिक्ख-जैन-क्रिश्चियन्-बौद्धाः च अवशिष्टाः । २००१ तमस्य जनगणतेः अनुसारं नगरे अक्षरज्ञाः ७०.३६% (६०.२५% महिलाः, ७१.९२% पुरुषाः) ।

"https://sa.wikipedia.org/w/index.php?title=कानपुरम्&oldid=233514" इत्यस्माद् पुनः प्राप्तिः